संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ रक्तस्त्रुति: ॥

॥ अथ रक्तस्त्रुति: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ रक्तस्त्रुति: ॥
शरत्काले स्वभावेन कुर्याद्रक्तस्त्रुतिं नर: । त्वग्दोषग्रन्थिशोथाद्या न स्य़ू रक्तसूजोयत: ॥१॥
इन्द्रगोपनिभं ज्ञेयं प्रकृतिस्थमसंहतम्‍ । शोधे दाहेऽड्गपाके च रक्तवर्णेऽसृज: स्त्रुततौ ॥२॥
वातरक्ते तथा कुष्ठे सपीडे दुर्जयानिले । पाणिरोगे श्लीपदे च विषदुष्टे च शोणिते ॥३॥
ग्रन्थ्यर्बुदापचीक्षुद्ररोगरक्ताधिमन्थिषु । विदारीस्तनरोगेषु गात्राणां सादगौरवे ॥४॥
रक्ताभिष्यन्दतन्द्रायां पूतिघ्राणास्यदाहके । यकृत्प्लीहविसर्पेषू दिद्रधौ पिटलोद्गमे ॥५॥
कर्णौष्ठघ्राणवक्राणां पाके दाहे शिरोरुजि । उपदंशे रक्तपित्ते रक्तस्त्राव: प्रशस्यते ॥६॥
गोशृड्गेण जलौकाभिरलाबुभिरपि त्रिधा । वातपित्तकफैर्दुष्तं शोणितं स्त्रावयेद्धुध: ॥७॥
द्विदोषाभ्यां च संदुष्टं त्रिदोषैरपिदूषितम्‍ । शोणितं स्त्रावयेद्युक्त्या शिरामोक्षै: पदैस्तथा ॥८॥
गृह्याति शोणितं शृड्गं दशाड्गुलमितं बलात्‍ । जलूका हस्तमात्रं तु तुम्बी च द्वादशाड्गुलम्‍ ॥९॥
पदमड्गुलमात्रं स्याच्छिरा सर्वाड्गशोधिनी । शीतोपचारै: कुपिते स्त्रुतरक्तस्य मारुते ॥१०॥
कोष्णेन सर्पिषा शोथं शनकै: परिषेचयेत्‍ । क्षीनस्यैणशिशोरश्त्रहरिणच्छागमांसज: ॥११॥
रस: समुचित: पाने क्षीरं वा षष्टिका हिता: । व्याव्याममैथुनक्रोधशीतस्नानप्रवातकान्‍ ॥१२॥
एकासनं दिवा निद्रां क्षाराम्लकटुभोजनम्‍ । शोकं वादमजीर्णें च त्यजेद्यावद्भलं भवेत्‍ ॥१३॥
इति रक्तस्त्रुति: । इति वमनरेचनादिकथनम्‍ ॥


॥ अथ शब्दपरिश्राषाकथनम्‍ ॥
अथ सहेतुकान्‍ सलक्षणान्‍ कतिचिद्विकारानाह । स्रुश्रुते तन्द्रालक्षनम्‍ । इन्द्रियार्थेष्वसंप्राप्तिगौरवं जृम्भणं क्लम: । निद्रार्तस्येव यस्यैते तस्य तन्द्रां विनिर्दिशेत्‍ ॥१॥

N/A

References : N/A
Last Updated : December 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP