संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथार्शसि शर्करासव: ॥

॥ अथार्शसि शर्करासव: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथार्शसि शर्करासव: ॥
दुरालभाया: प्रस्थस्य चित्रकस्य वृषस्य च । पथ्यामलकयोश्चैव पाठाया नागरस्य च ॥१॥
दद्याद्दिपलिकान्भागाञ्जद्रोणे विपाचयेत्‍ । पाददोषे रसे पूते सुशीते शर्कराशतम्‍ ॥२॥
दत्वा कुम्भे दृढे स्थाप्यं मासार्धं घृतभाजने । प्रलिप्ते पिप्पलीचव्यप्रियड्गुमधुसर्पिषा ॥३॥
तस्य मात्रां पिबेत्काले शार्करस्य यथाबलम्‍ । अर्शांसि ग्रहणीरोगमुदावर्तमरोचकम्‍ ॥४॥
शकृन्मूत्रानिलोद्गाविबन्धानग्निमार्दवम्‍ । हृद्रोगं पाण्डुरोगं च सर्वरोगान्प्रणाशयेत्‍ ॥५॥
इति शर्करासव: ॥
==
॥ अथ द्राक्षासव: ॥
द्राक्षापलशतं दत्वा चतुर्द्रोणेऽम्भस: पचेत्‍ । द्रोणशेषे रसे तस्मिन्पूतशेषे प्रदापयेत्‍ ॥१॥
शर्करायास्तुलां दत्वा तत्तुल्यं मधुनस्तथा । पलानि सप्त धातक्या: स्थापयेदाज्यभाजने ॥२॥
जातीलवड्गकक्कोललवलीफलचन्दनै: । कृष्णा त्रिगन्धसंयुक्ता भागैरर्धपलांशकै: ॥३॥
त्रि:सप्ताहाद्भवेत्पेयं तत्र मात्रा यथाबलम्‍ । नाम्ना द्राक्षासवो ह्येष नाशयेद्‍गुदकीलकान्‍ ॥४॥
शोषारोचकत्दृत्‍पाण्डुरक्तपित्तभगन्दरान्‍ । गुल्मोदरकृमिग्रन्थिक्षतशोषज्वरान्तकृत्‍ ॥ वातपित्तप्रशमन: शस्तश्च बलवर्णकृत्‍ ॥५॥
इति द्राक्षासव:

॥ अथ समशर्करचूर्णम्‍ ॥
शुण्ठीकणामरिचनागदलत्वेगेलं चूर्णीकृतं क्रमविवर्धितमूर्ध्वमन्त्यात्‍ । खादेदिदं समसितं गुदजाग्निमान्द्यगुल्मोदरश्वयथुपाण्डुगुदोद्भवेषु ॥१॥ इति सप्तशर्करचूर्णम्‍ ॥

N/A

References : N/A
Last Updated : December 19, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP