संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथापस्मारनिदानमाह ॥

॥ अथापस्मारनिदानमाह ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथापस्मारनिदानमाह ॥
चिन्ताशोकादिभिर्दोषा: क्रुद्धा हृत्स्त्रोतसि स्थिता: । कृत्वा स्मृतेरपध्वंसमपस्मारं प्रकुर्वते ॥१॥

॥ अथ सामान्येन तल्लक्षणमाह ॥
तम:प्रवेश: संरम्भो दोषोद्रेकहतस्मृति: । अपस्मार इति ज्ञेयो गदो घोरश्चतुर्विध: ॥ वातपित्तकफै: सर्वैर्दोषै: स स्याच्चतुर्विध: ॥१॥

॥ अथ वातिकमाह ॥
कम्पते प्रदशेद्दन्तान्फेनोद्वामी श्वसित्यपि । परूषारुणकृष्णानि पश्येद्रूपाणि चानिलात्‍ ॥१॥

॥ अथ पैत्तिकमाह ॥
पीतफेनाड्गवक्राक्ष: पीतासृग्रूपदर्शन: । स तृष्णोष्णानिलव्याप्तलोकदर्शी च पैत्तिक: ॥

॥ अथ श्लैष्मिकमाह ॥
शुक्लफेनाड्गवक्राक्ष: शीतो हृष्टाड्गजो गुरु: । पश्येद्रूपाणि शुक्लानि श्लैष्मिको मुच्यते चिरात्‍ ॥१॥

॥ अथ सान्निपातिकमाह ॥
सर्वैरेभि: समस्तैश्च लिड्गैर्ज्ञेयस्त्रिदोषज: । अपस्मार: स चासाध्यो य: क्षीणश्चानवश्च य: ॥१॥

॥ अथासाध्यमाह ॥
प्रस्फुरन्तं स बहुश: क्षीणं प्रचलितभ्रुवम्‍ । नेत्राभ्यां च विकुर्वाणमपस्मारो विनाशयेत्‍ ॥१॥

॥ अथ कालनियममाह ॥
पक्षाद्वापि दशाहाद्वा मासाद्वा कुपिता मला: । अपस्माराय कुर्वन्ति वेगं किञ्चिदथोत्तरम्‍ ॥१॥
देवे वर्षत्यपि यथा भूमौ बीजानि कानि चित्‍ । शरदि प्रविरोहन्ति तथा रोगामुद्भव: ॥२॥
इत्यपस्मारनिदानम्‍ ॥

॥ अथापस्मारचिकित्सा ॥
पूर्वं युञ्ज्यादपस्मारे छर्दनादीनि बुद्धिमान्‍ । वातिकं बस्तिभि: प्राय: पैत्तिकं च विरेचनै: ॥ कफजं वमनप्रायैरपस्मारमुपाचरेत्‍ ॥१॥

॥ अथ करञ्जादियोग: ॥
करञ्जदारुसिद्धार्थकटभीरामठं वचा । समड्गा त्रिफला व्योष प्रियड्गुश्च समांशक: ॥१॥
बस्तमूत्रेण सम्पिष्य नस्यपानाञ्जनादिषु । योज्यो योगोऽयमुन्मादेऽपस्मारे भूतरोगिषु ॥२॥

॥ अथ योगतो निर्गुण्ड्यादिनावनम्‍ ॥
निर्गुण्डीभववन्दाकनावनस्योपयोगत: । उपैति सहसा नाशमपस्मारो न संशय: ॥१॥

॥ अथ यष्ट्याह्वादिनावनाञ्जने चिकित्सासारात्‍ ॥
यष्टीहिड्गुवचावज्रीशिरीषलशुनामयै: । साजमूत्रैरपस्मारे सोन्मादे नावनाञ्जने ॥१॥

॥ अथ चिकित्सारादञ्जनधूपने ॥
पुष्पोद्भृतं शुन: पित्तमपस्मारघ्नमञ्जनम्‍ । तदेव सर्पिषा युक्तं धूपनं परमं हितम्‍ ॥१॥
अथ मनोह्वाद्यञ्जनम्‍ ॥ मनोह्वातार्क्ष्यकं चैव शकृत्पारावतस्य च । अञ्जनं हन्त्यपस्मारमुन्मादं च विशेषत: ॥१॥
अथ श्वशृगालादि । वृन्दात्‍ ।
श्वशृगालबिडालानां कपिलानां गवामपि । पित्तानि नस्यतो हन्युरपस्मारं पृथक्‍ पृथक्‍ ॥१॥
अथ त्रपुसीनस्यम्‍ ॥ अरण्यत्रपुसीचूर्णम्‍ नस्येनापस्मृतिं जयेत्‍ ॥१॥

॥ अथ मधुवचायोग: ॥
य: खादेत्क्षीरभक्ताशी माक्षिकेण वचारज: । अपस्मारं महाघोरं सुचिरोत्थं जयेद्‍ध्रुवम्‍ ॥१॥

॥ अथ मुस्तकमूलयोग: ॥
उत्तरदिग्गतमुस्तकमूलं बुद्ध्वा समुद्धृतं पुष्ये । पीतं पयसा हन्यादपस्मृतिं गो: सवर्णवत्साया: ॥१॥

॥ अथ योगत: कूष्माण्डादि: ॥
कूष्माण्डकगिरोत्थेन रसेन परिपेषितम्‍ । अपस्मारविनाशाय यष्ट्याह्वं स पिबेत्र्यहम्‍ ॥१॥

॥ अथ घृतानि ॥
अथ चिकित्सासाराद्रसायनभैरव: ॥ वचामृतव्योषमधूकसाररुद्राक्षसिन्धूद्भवबार्हतानि । फलं समुद्रस्य रसोनकल्कं ध्मातं हि नासापुटमध्यदेशे ॥१॥
अपस्मृतिश्लेष्ममरुच्छिरोरुकप्रलापतन्द्राभ्रमजाड्यमोहान्‍ । स संनिपातं श्रुतिकाक्षिभड्गान्‍ सपीनसं हन्ति हलीमकं च ॥२॥
रसायनं भैरवनामधेयं ज्ञातं विचारात्‍ कविविठ्ठलेन ॥३२॥
अथ ब्राह्मीघृतम्‍ ॥ ब्राह्मीरसे वचाकुष्ठशड्खपुष्पीभिरेव च । पक्वं पुरातनं सर्पिरपस्मारहरं ध्रुवम्‍ ॥१॥
अथ सैन्धवाद्यं घृतम्‍ ॥ घृतसैन्धवहिड्गुभ्य: कर्षैर्वा तच्चतुर्गुणै: । मूत्रै: सिद्धमपस्मारत्दृद्‍ग्राहग्रामनाशनम्‍ ॥१॥
अथ स्वल्पपञ्चगव्यघृतम्‍ । गोशकृद्रसदध्यम्लक्षीरमूत्रै: समं घृतम्‍ । सिद्धं चातुर्थिकोन्मादग्रहापस्मारनाशनम्‍ ॥१॥
अथ वृन्दात्‍ कूष्माण्डादि घृतम्‍ ॥ कूष्माण्डकरसे सर्पिरष्टादशगुणे पचेत्‍ । यष्ट्याह्वकल्के तत्सिद्धमपस्मारहरं परम्‍ ॥१॥
॥ अथ तैलचूर्णानि ॥
अथ योगत० कटभ्यादितैलम्‍ ॥ कटभीनिम्बकटुडमधुशिग्रुत्वचारसे । सिध्द मूत्रयुतं तैलं लेपाध्दन्यादपस्मृतिम्‍ ॥१॥
अथ वृन्दात्‍ सार्षपं तैलम्‍ ॥ अभ्यडे सार्षपं तैलं बस्तमूत्रे चतुर्गुणे । सिध्दं स्याद्‍गोशकृनमूत्रे स्रानाच्छादनमेव च ॥१॥
अथ धूपनम्‍ ॥ नकुलोलूकमार्जारगृध्रकीटाहिकाकजै: । तुण्डै: पक्षै: पुरीषैश्च धूपनं कारयेद्भिषक्‍ ॥१॥
दुश्चिकित्स्यो ह्यपस्मारश्चिरकारी महागद: । तस्माद्रसायनैरेतै: प्रायश: समुपाचरेत्‍ ॥२॥
त्दृत्कम्पो‍ऽक्षिरुजा यस्य स्वेदो हस्तादिशीतता । दशमूलीजलं तस्य कल्याणाज्यं च योजयेत्‍ ॥३॥
अथ कल्याणकं चूर्णम्‍ ॥ पश्चकोलं समरिचं त्रिफला बिडसैन्धवम्‍ । कृष्णाविड्डपूतीकयवानीधान्यजीरकम्‍ ॥१॥
पीतमुष्णाम्बुना चूर्णं वातश्लेष्मामयापहम्‍ । अपस्मारे तथोन्मादे दुर्नामग्रहणीगदे । एतत्कल्याणकं चूर्णं नष्टस्याग्रेश्च दीपनम्‍ ॥२॥
॥ इति कल्याणकं चूर्णम्‍ ॥
॥अथ जलमृतलक्षणम्‍ ॥
विष्टब्धपायुमूर्धाक्षं शीतपादकरोदरम्‍ । विद्याज्जलमृतं जन्तुं शूनपन्नाभिमेहनम्‍ ॥१॥
॥ अथ रसरत्नप्रदीपात्स्मृतिसागररस: ॥
रसगन्धकतालानां सशिलाताम्रभस्मनाम्‍ । श्रध्दांना मूर्च्छितानां च चूर्णं भाव्यं वचाशृतै: ॥१॥
एकविंशतिधा पश्चाद्‍ब्राह्मी वारा तथैव च । कटभीबीजतैलेन भावयेदेकवारकम्‍ ॥२॥
स्मृतिसगरनामायं रसोऽपस्मारनाशन: । सर्पिषा माषमात्रोऽयं भुक्तो हन्यादपस्मृतिम्‍ ॥३॥
इति स्मृतिसागररस: । उन्मादोक्तो विधि: सर्वो ह्यपस्मारे प्रयुज्यते ॥४॥
॥अथ पथ्यापथ्यम्‍ ॥
लोहिता: शालयो मुद्रा गोधूमा: प्रततं हवि:। कूर्मामिषं धन्वरसा दुग्धं ब्राह्मीदलं वचा ॥१॥
पटोलं वृध्दकूष्माण्डं वास्तुकं स्वादु दाडिमम्‍ । सौभाज्जनं पय: पेटी द्राक्षा धात्री परुषकम्‍ । अपस्मारगदे नृणां पथ्यमेतदुदीरितम्‍ ॥२॥
मद्यं मत्स्यं विरुध्दान्नं तीक्ष्णोष्णं गुरुभोजनम्‍ । अतिव्यवायमायासं पूज्यपूजाव्यतिक्रमम्‍ ॥३॥
पत्रशाकानि सर्वाणि बिम्बीमाषाढकं फलम्‍ । तृषानिद्राक्षुधावेगानपस्मारी नरस्त्यजेत्‍ ॥४॥
इत्यपस्मारचिकित्सा॥

N/A

References : N/A
Last Updated : December 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP