॥ अथ कल्याणकावलेह: ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
पाठाधान्ययवान्यजाजिहपुषाचव्याग्निसिन्धूद्भ्वै: सश्रेयस्यजमोदकीटरिपुभि: कृष्णाजटासंयुतै: सव्योषै: सफलत्रिकै: सतृटिभिस्त्वकपत्रकैरोषधैरित्यक्षप्रमितै: सतैलकुडवै: सार्धं त्रिवृन्मुष्टिभि: ॥१॥
एतैरामलकीरसस्य तुलया सार्धं तुलार्धं गुडात्पक्तव्य़ं भिषजावलेहवदयं प्राग् भोजनाद्भक्षित: । ये केचिद्ग्रहणीगदा: सगुदजा: कासा: सशेषामया: सश्वासा: श्वयथुस्वरोदररुज: कल्याणकस्ताञ्जयेत् ॥२॥ इति कल्याणकावलेह: ॥
मुनिम्बकौटजकटुत्रिकमुस्ततिक्ता: कर्षांशका: सशिखिमूलपिचुद्वयाश्च । त्वक् कौटजां पलचतुष्कमिता गुडाम्भ: पीतं नृणामिह हरेद्ग्रहणीविकारान् ॥१॥
बिल्वाब्दशक्रयववालकमोचसिद्धमाजं पय: पिबति यो दिवसत्रयं च । सोऽतिप्रवृद्धचिरकृद् ग्रहणीविकारं मांसं सशोणितमसाध्यमपि क्षिणोति ॥२॥
व्योषं दीप्याजमोदाकृमिरिपुदहनं रामठं चाश्वगन्धं सिन्धूत्थं जीरके द्वे रुचकफलयुतं धान्यकं तुल्यभागम् । भृड्गीचूर्णं लवड्गं घृतमधुसहितं शाणमात्रं च दद्याद्दीप्तिं च कान्तिं बलमपि कुरुते नाशयेत्संग्रहण्याम् ॥३॥
N/A
References : N/A
Last Updated : December 19, 2017
TOP