॥ अथ मेघनादरेचनरस: ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
दरदं टड्कणं चैव सैन्धवं च कटुत्रयम् । त्रिफला हारहूरा च कृमिघ्नं रामठं तथा ॥१॥
दस्युदीप्यं समानं च दन्ती सर्वार्धभागिका । जम्बीरवार संमर्द्य चणकस्य प्रमाणत: ॥२॥
उष्णोदकानुपानेन कृम्यामान्तं विरेचनम् । तस्योपरि हितं देयं पथ्यं दध्योदनं परम् ॥३॥
उदरे पाण्डुशोफे च शोफोदरजलोदरे । सर्वज्वरे च विषमे मेघनाद: प्रशस्यते ॥४॥
इति मेघनादरेचनम् । पीत्वा विवेचनं न वातस्थो न वेगांश्च धारयेन्न स्वपेत्तथा । शीताम्बु न स्पृशेत्कापि कोष्णं नीरं पिबेन्नर: ॥२॥
इन्द्रियाणां बलं बुद्धे: प्रसादं वह्यिदीप्तताम् । धातुस्थैर्यं वय:स्थैर्यं भवेद्रेचनसेवनात् ॥३॥
प्रवातसेवा शीताम्बु स्नेहाभ्यड्गमजीर्णताम् । व्यायामं मैथुनं चैव न सेवेत विरेचित: ॥४॥
शालिषष्टिकमुद्गाद्यैर्यवागूं भोजयेत्कृताम् । जाड्गलैर्विष्किराणां वा रसै: शाल्यादेनं हितम् ॥५॥
विरेकस्यातिवेगेन मूर्छा भ्रंशो गुदस्य च । शूलं कफातियोग: स्यान्मांसधावनसंनिभम् ॥६॥
मेदोनिभं जलाभासं रक्तं वापि विरिच्यते । तस्य शीताम्बुभि: सिक्त्वा शरीरं तण्डुलाम्बुभि: ॥७॥
सहकारत्वचा कल्को कध्रा सौवीरकेण वा । पिष्ट्वा नाभिप्रलेपेन हन्त्यतीसारमुल्बणम् ॥८॥ इति विरेचनविधि: ॥
N/A
References : N/A
Last Updated : December 17, 2017
TOP