॥ अथ स्नेहपाकविधिः ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
आदौ संचारयेत्क्काथं दुग्धं कल्कं ततः क्रमात् ।
ततोऽन्यत्सुरभि द्रव्यमेष स्नेहविधिः क्रमात् ॥१॥
तैलं कृत्वा कटाहे दृढतरविमले मन्दमन्दानले तत् पक्कं निःफेनभावं गतमिह हि यदा शैत्यभावं समेत्य ।
मञ्जिष्ठारात्रिलोध्रैर्जलधरतनुकैः सामलैः साक्षापथ्यैः सूचीपूष्पाङ्घ्रिनीरैरुपहितमथ तैस्तैलगन्धं जहाति ॥२॥
तैलस्येन्दुकलांशकेन विकसा ग्राह्या तु मूर्च्छाविधौ ये चान्ये त्रिफलापयोदरजनीह्रीबेरलोध्रान्विताः ।
सूचीपुष्पवटावरोहनलिकास्तस्याथ पादांशकाः पाच्यास्तैलजगन्धदोषहृतये कल्कीकृतास्तद्विदैः ॥३॥
आम्रजम्बूकपित्थानां बीजपूरकबिल्वयोः ।
शोधनं तिलतैलस्य पल्लवानां तु पञ्चकम् ॥४॥
कल्काच्चतुर्गुणः स्नेहः स्नेहात्क्कायं चतुर्गुणम् ।
क्काथाच्चतुर्गुणं वारि क्काथः क्काथ्यसमो मतः ॥५॥
मृदौ चतुर्गुणं देयं कठिनेऽष्टगुणं जलम् ।
कठिनात्कठिने द्रव्ये वारि षोडशभागिकम् ॥६॥
कर्षादितः पलं यावद्वारिषोडशकं क्षिपेत् ।
तदूर्ध्वं कुडवं यावत्क्षिपेदष्टगुणं जलम् ॥७॥
प्रस्थादितः क्षिपेन्नीरं स्वारी यावच्चतुर्गुणम् ।
शब्दहीनोऽग्निनिक्षिप्तः स्नेहः सिद्धो भवेत्तदा ॥८॥
यदा फेनोद्गमस्तैले फेनशान्तिश्च सर्पिषि ।
वर्णगन्धरसोत्पत्तिः स्नेहसिद्धिस्तदा भवेत् ॥९॥
अकल्कद्रव्ययोगानां कठिनानां विचारतः ।
क्काथो विधीयतेऽन्येषां कल्क एव भिषग्मतः ॥१०॥
ईषत्पिष्टो भवेत्कल्कः क्काथोऽग्निक्कथितो मतः ।
स्नेहपाकस्त्रिधा प्रोक्तो मृदुर्मध्यः स्वरस्तथा ॥११॥
ईषत्सरसकल्कस्तु स्नेहपाको मृदुर्भवेत् ।
मध्यपाकश्च सिद्धश्च कल्के नीरसकोमले ॥१२॥
ईषत्कठिनकल्कश्च स्नेहपाको भवेत्स्वरः ।
तदूर्ध्वं दग्धपाकः स्याद्दाहकृन्निष्प्रयोजकः ॥१३॥
आमपाकाश्च निर्वीर्यो वह्निमान्द्यकरो गुरुः ।
नस्यार्थं स्यान्मृदुः पाको मध्यमः सर्वकर्मसु ॥१४॥
अभ्यङ्गार्थं स्वरः प्रोक्तो युज्यादेवं यथोचितम् ।
घृततैलगुडादींश्च साधयेन्नैकवासरे ।
प्रकुर्वन्त्युषिताश्चैते विशेषाद्गुणसंचयम् ॥१५॥
तैलं संस्थाप्य पात्रे विधिवदथ पचेद्वासरादग्निमानात् क्काथैर्दुग्धैश्च कल्कैस्तदनु सुरभिभिः शोधनीयैर्विशुद्धैः ।
कस्तूरीचन्दनग्लौजलजलदसटीरक्तपाटीरकुष्ठत्वग्मञ्जिष्ठातुरुष्कागुरुनस्वरदलैः पीतकङ्कोलमुख्यैः ॥१६॥
इति स्नेहपाकविधिः ॥
N/A
References : N/A
Last Updated : December 13, 2017
TOP