संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ शिलाजतुकरणम्‌ ॥

॥ अथ शिलाजतुकरणम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


मुख्यं शिलाजतु शिलां सूक्ष्मखण्डां प्रकल्पयेत्‌ ।
निक्षिप्यात्पुष्णपानीये यामैकं स्थापयेत्सुधीः ॥१॥
मर्दयित्वा ततो नीरं गृह्णीयाद्वस्त्रगालितम्‌ ।
स्थापयित्वा च मृत्पात्रे धारयेदातपे बुधः ॥२॥
उपरिस्थं घनं यत्स्यान्निक्षिपेदन्यपात्रके ।
धारयेदातपे तस्मादुपरिस्थं घनं नयेत्‌ ॥३॥
एवं पुनः पुनर्नीत्वा द्विमासाभ्यां शिलाजतु ।
भूयात्कार्यक्षमं वह्नौ क्षिप्तं लिङ्गोपमं भवेत्‌ ॥४॥
निर्धूर्मं च त्ततः शुद्धं सर्वकार्येषु योजयेत्‌ ।
अधःस्थितं च यच्छेषं तस्मान्नीरं विनिक्षिपेत्‌ ॥५॥
इति शिलाजतुकरणम्‌ ॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP