संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ स्वरभेदनिदानं व्याख्यास्याम: ॥

॥ अथ स्वरभेदनिदानं व्याख्यास्याम: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ स्वरभेदा: ॥
अत्युच्चभाषणविषाध्ययनाभिघातसन्दूषणै: प्रकुपिता: पवनादयश्च । स्त्रोतस्सु ते स्वरवहेषु गता: प्रदुष्टिं हन्यु: स्वरं भवति चापि हि षड्‍विध: स: ॥१॥

॥ अथ वातिकमाह ॥
वातेन कृष्णनयनाननमूत्रवर्चा भिन्नं शनैर्वदति गर्दभवत्स्वरं च ॥१॥

॥ अथ पैत्तिकमाह ॥
पित्तेन पीतनयनाननमूत्रवर्चा ब्रूयाद्गलेन स विदाहसमन्वितेन ॥१॥

॥ अथ कफजमाह ॥
ब्रूयात्‍ कफेन सततं कफरुद्धकण्ठ: स्वल्पं शनैर्वदति चापि दिवा विशेषात्‍ ॥१॥

॥ अथ संनिपातजमाह ॥
सर्वात्मके भवति सर्वविकारलिड्गं तं चाप्यसाध्यमृषय: स्वरभेदमाहु: ॥१॥

॥ अथ क्षयजमाह ॥
धूम्येत वाक्‍ क्षयकृते क्षयमाप्नुयाच्च वाक्येषु चापि हतवाक्‍ परिवर्जनीय: ॥१॥

॥ अथ मेदोजमाह ॥
अन्तर्गतस्वरमलक्षपदं चिरेण मेदोऽन्वयाद्वदति दिग्धगलस्तृषालु: ॥१॥

॥ अथासाध्यमाह ॥
क्षीणस्य वृद्धस्य कृशस्य चापि चिरोत्थितो यश्च सहोपजात: । मेदस्विन: सर्वसमुद्भवश्च स्वरामयो यो न स सिद्धिमेति ॥१॥
इति स्वरभेदनिदानम्‍ ।

॥ अथ तच्चिकित्सा ॥
वातस्वरभे: । स्वरोपघातेऽनिलजे भुक्तोपरि घृतं पिबेत्‍ । मरीचचूर्णसहितं मरुत्स्वरहतिप्रणुत्‍ ॥१॥
कासमर्दरसं दत्वा भार्गीकल्कं शनै: शनै: । सिद्धं सर्पिर्हितं पीतं स्वरभेदं मरुद्भवम्‍ ॥२॥
इति कासमर्दघृतम्‍ । आद्ये कोष्णजलं पेयं जग्ध्वा घृतगुडौदनम्‍ । पीतं घृतं हन्त्यनिलं सिद्धं मार्कवजे रसे ॥१॥

॥ अथ पित्तस्वरभेद: ॥
पैत्तिके तु विरेक: स्यात्पयश्च मधुरै: शृतम्‍ । लिह्यान्मधुरवस्तूनां चूर्णं मधुसमन्वितम्‍ ॥१॥
अश्रीयाच्च ससर्पिष्कं यष्टीमधुकषायकम्‍ । शर्करामधुमिश्राणि शृताइ मधुरै: सह ॥२॥
पिबेत्पयांसि सस्योच्चैर्वदतोऽपि हत: स्वर: । शतावरीचूर्णयोगं बलाचूर्णमथापि च ॥ लाजाशतावरीचूर्णं लिह्यान्मधुसमायुतम्‍ ॥३॥

॥ अथ शुण्ठीघृतम्‍ ॥
शुण्ठीत्वचो दुग्धवतां द्रुमाणां सम्पिष्य दुग्धे विपचेत्तु तेन । कल्केन यष्टीमधुकस्य सर्पि: सशर्करं पित्तरुजामयग्नम्‍ ॥१॥
इति पित्तस्वरभेद: ॥

॥ अथ कफस्वरभेद: ॥
पिप्पली पिप्पलीमूलं मरीचं विश्वभेषजम्‍ । पिबेन्मूत्रेण मतिमान्कफजे स्वरसंक्षये ॥१॥ इति पिप्पल्यादिचूर्णम्‍ ।

॥ अथ सन्निपातस्वरभेद: ॥
अजमोदा निशा धात्री क्षारं वह्निं विचूर्णयेत्‍ । मधुसर्पिर्युतं लीढ्वा त्रिदोषस्वरभड्गनुत्‍ ॥१॥
फलत्रिकत्र्यूषणयावशूकचूर्णानि हन्यु: स्वरभड्गमाशु । किं वा कुलत्थं वदनान्तरस्थं स्वरामयं हन्त्यथ पौष्करं वा ॥२॥
अथ क्षयमेद:स्वरभड्गौ । क्षयजे स्वरभेदे तु तत्रोक्तविधिमाचरेत्‍ । कटुतिक्तकषायाद्यैर्मेद: स्वरहर्ति जयेत्‍ ॥१॥
अथ सामान्यविधि: । चव्याम्लवेसकटुत्रयतित्तिडीकतालीसजीरकतुगादहनै: समांशै: । चूर्णं गुडप्रमृदितं त्रिसुगन्धयुक्तं वैस्वर्यपीनसकफारुचिषु प्रशस्तम्‍ ॥१॥
इति चव्यादिचूर्णं योगशतात्‍ ॥

॥ अथ व्याघ्रीघृतम्‍ ॥
व्याघ्रीस्वरसविपक्वं रास्त्रावाट्यालगोक्षुरव्योषै: । सर्पि: स्वरोपघातं हन्यात्‍ कासं च पञ्चविधम्‍ ॥१॥
इति चिकित्सासारात्‍ । बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम्‍ । स्वरोपघाते कासे च लेहमेनं प्रयोजयेत ॥१॥
इति कदम्बात्‍ । विहितघुसृणचूर्णान्यारनालेन सार्धं कलितरुफलकृष्णासैन्धवानि प्रलिह्यात्‍ । अभिलषति विजेतुं य: स्वरस्य प्रणाशं स हि पिबतु सदुग्धं चामलक्या: फलं वा ॥१॥
इति सारसड्गहात्‍ । वाते सलवणं तैलं पित्ते सर्पि: समाक्षिकम्‍ । कफे सक्षारकटुकं क्षौद्रं केवलमिष्यते ॥१॥
गले तालुनि जिह्यायां दन्तमूलेषु चाश्रित: । तेन निष्क्रमते श्लेष्मा स्वरश्चाशु प्रसीदति ॥२॥
तैलाक्तं स्वरभेदे वा खादिरं धारयेन्मुखे । पथ्यापिप्पलियुक्तं वा संयुक्तं नागरेण वा ॥३॥
इति वृन्दात्‍ ॥

॥ अथ रसा: ॥
रसभस्मार्कलोहस्य भावितस्य त्रिसप्तधा । क्षुद्राफलरसैर्मुद्गतुल्या कार्या वटी शुभा ॥१॥
मुखस्था हस्ते सर्वं स्वरभड्गमसंशयम्‍ । गोरक्षनाथैर्गदिता स्वरायिकृपालुभि: ॥२॥
इति गोरक्षवटी ॥

॥ अथ पथ्यम्‍ ॥
द्राक्षा पथ्या मातुलुड्गं लशुनं लवणार्द्रकम्‍ । ताम्बूलं मरिचं सर्पि: पथ्यानि स्वरभेदिनाम्‍ ॥१॥
इति स्वरभेदचिकित्सा ॥

N/A

References : N/A
Last Updated : December 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP