॥ अथ जाङ्गलमांसगुणाः ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
एणमांसं हिमं रुच्यं ग्राहि दोषत्रयापहम् ।
षड्रसं बलदं पथ्यं लघु रूक्षं ज्वरास्रजित् ॥१॥
चित्राङ्गो वातुलः कश्चिन्मधुरो बलवर्धनः ।
तद्वच्छम्बरमांसं तु वृष्यं दोषत्रयापहम् ॥२॥
( ३ नं नाही. )
शशः शीतो लघुः स्वादुर्ग्राही पथ्योऽग्निदीपनः ।
सन्निपातज्वरश्वासरक्तपित्तकफापहः ॥४॥
गोधाऽनिलहरा बल्या वृष्या मेध्या च कीर्तिता ।
मूषको बद्धविण्मूत्रो बल्यो वृष्योऽनिलापहः ॥५॥
सल्लकः श्वासकासास्रशोषदोषत्रयापहः ।
सेधा तथैव विज्ञेया विशेषाद्बलवर्धिनी ॥६॥
शृगालो बलदो वृष्यः सर्ववातक्षयापहः ।
वानरः पवनश्वासमेदःपाण्डुकृमीञ्जयेत् ॥७॥
वार्तिको मधुरः शीतो रूक्षश्च कफवातजित् ।
पारावतो गुरुः स्वादुः कषायो रक्तपित्तहा ॥८॥
चटकः शीतलः स्निग्धः स्वादुः शुक्रकफप्रदः ।
सन्निपातहरो वेश्मचटकः शुक्रलः परः ॥९॥
लावा वह्निकराः स्निग्धा मधुरा ग्राहिणो हिमाः ।
पांशुलः श्लेष्मलस्तेषु वीर्योष्णोऽनिलनाशनः ॥१०॥
गौरो लघुतरो रूक्षो वह्निकारी त्रिदोषजित् ।
पौण्ड्रकः पित्तकृत्किञ्चिल्लघुर्वातकफापहः ॥११॥
दर्भरो रक्तपित्तघ्नो हृदामयहरो हिमः ।
तित्तिरः कृष्णवर्णः स्यात्स तु गौरः कपिञ्जलः ॥१२॥
तित्तिरो वर्णदो ग्राही हिक्कादोशत्रयापहः ।
श्वासकासज्वरहरस्तस्माद्गौरोऽधिको गुणैः ॥१३॥
मयूरमांसं सुस्निग्धं वातघ्नं शुक्रवर्धनम् ।
बल्यं मेधाकरं प्रोक्तं चक्षूरोगविनाशनम् ॥१४॥
सेव्यं मयूरजं मांसं हेमन्ते शिशिरे मधौ ।
न शरद्ग्रीष्मयोः पथ्यं वर्षास्वपि हितं न च ॥१५॥
स्वादुः कषायश्च लघुः कपोतः कफपित्तहा ।
शुको बल्योऽतिवृष्यश्च वीर्यवृद्धिकरः परः ॥१६॥
कुक्कुटो बृंहणः स्निग्धो वीर्योष्णोऽनिलजिद्गुरुः ।
चक्षुष्यः शुक्रकफकृद्वन्यो हृद्यः कफान्तकः ॥१७॥
पानीयकुक्कुटः स्निग्धो बृंहणः श्लेष्मलो गुरुः ।
छागमांसं गुरु स्निग्धं लघुपाकं त्रिदोषजित् ॥१८॥
अदाहि बृंहणं नातिशीतं पीनसनाशनम् ।
देहधातुसमानत्वादनभिष्यन्दि बृंहणम् ॥१९॥
तत्रापि कोमलच्छागमांसं पथ्यं त्रिदोषजित् ।
मेषमांसं गुरु स्निग्धं बल्यं पित्तकफप्रदम् ॥२०॥
मेदः पुच्छामिषं वृष्यं कफपित्तकरं गुरु ॥
इति जाङ्गलमांसानि ॥
N/A
References : N/A
Last Updated : December 10, 2017
TOP