॥ अथ मन्ददधिगुणाः ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
विदाहि सृष्टविण्मूत्रं मन्दजातं त्रिदोषजित् ।
सशर्करं दधि श्रेष्ठं तृष्णापित्तास्रदाहजित् ॥१॥
मन्दं दुग्धवदव्यक्तरसं किञ्चिद्धनं भवेत् ।
मन्दं स्यात्सृष्टविण्मूत्रं दोषत्रयविदाहकॄत् ॥२॥
सगुडं वातनुद्वृष्यं बृंहणं तर्पणं गुरु ।
न रात्रौ दधि सेवेत न चाप्यघृतशर्करम् ॥३॥
नामुद्गसूपं नाक्षौद्रं नोष्णं नामलकैर्विना ।
शस्यते दधि नो रात्रौ शस्तं चाम्बुघृतान्वितम् ॥४॥
रक्तपित्तकफोत्थेषु विकारेषु हितं न तत् ।
मूत्रकृच्छ्रे प्रतिश्याये शीतगे विषमज्वरे ॥५॥
अतिसारेऽरुचौ कार्श्ये दिवा च दधि शस्यते ।
हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते ॥६॥
शरद्ग्रीष्मवसन्तेषु प्रायशस्तद्विगर्हितम् ।
दध्नस्तूपरि यत्तोयं तन्मस्तु परिकीर्तितम् ॥७॥
मस्तु क्लमहरं बल्यं लघु भक्ताभिलाषकृत् ।
स्रोतोविशोधनाल्हादि कफतृष्णानिलापहम् ।
अवृष्यं प्रीणनं शीघ्रं भिनत्ति मलसंग्रहम् ॥८॥
N/A
References : N/A
Last Updated : December 12, 2017
TOP