॥ अथ प्रकृतिः ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
अधृतिरदृढसौहृदः कृतघ्नः कृशपुरुषो धमनीततः प्रलापी ।
द्रुतगतिरटनोऽनवस्थितात्मावियति च गच्छति संभ्रमेण सुप्तः ॥१॥
अव्यवस्थितमतिश्चलदृष्टिर्मन्दरत्नधनसंचयमित्रः ।
किञ्चिदेव विलपत्यनिबद्धं मारुतप्रकृतिरेष मनुष्यः ॥२॥
मेधावी निपुणमतिर्विगल्भवक्ता तेजस्वी समितिषु दुर्निवारवीर्यः ।
सुप्तः सन् कनकपलाशकर्णिकारान् संपश्येदपि च हुताशविद्युदुल्काः ॥३॥
न भयात्प्रणमेदनतेष्वमृदुः प्रणतेश्वपि सान्त्वनदानपरः ।
भवतीह सदा व्यथितास्यगतिः स भवेदिह पित्तमयप्रकृतिः ॥४॥
शुक्लाक्षः स्थिरकुटिलालिनीलकेशो लक्ष्मीवान् जलदमृदङ्गसिंहघोषः ।
सुप्तः सन् सकमलहंसचक्रवाकान् संपश्येदपि च जलाशयान्मनोज्ञान् ॥५॥
रक्तान्तनेत्रः सुविभक्तगात्रः स्निग्धच्छविः सत्वगुणोपपन्नः ।
क्लेशक्षमो मानयिता गुरूणां ज्ञेयो बलासप्रकृतिर्मनुष्यः ॥६॥
द्वयोर्वा तिसॄणां वापि प्रकृतीनां तु लक्षणैः ।
ज्ञात्वा संसर्गजा वैद्यः प्रकृतीरभिदर्शयेत् ॥७॥
विषजातो यथा कीटो न विषेण विपद्यते ।
तद्वत्प्रकृतयो मर्त्यं शक्नुवन्ति न बाधितुम् ॥८॥
इति प्रकृतयः ॥
N/A
References : N/A
Last Updated : December 10, 2017
TOP