संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ कुरण्टकादिनामा लेह: ॥

॥ अथ कुरण्टकादिनामा लेह: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ कुरण्टकादिनामा लेह: ॥
कुरण्टकं समूलं कुठारच्छेदक्षुण्णकम्‍ । पानीयमष्टप्रस्थं वा क्वाथमष्टावशेषकम्‍ ॥१॥
शेषक्वाथं भाण्डमध्ये पुन: क्वाथ्याग्निना पचेत्‍ । क्वाथे त्रिभागपचिते चूर्णद्रव्याणि निक्षिपेत्‍ ॥२॥
एला लवड्गं त्रिफला चव्यं पत्रककेसरम्‍ । द्विर्भार्गी ग्रन्थिकं मागधी चित्रकुष्ठकम्‍ ॥३॥
कोलाञ्जनं चाजमोदा वज्रवल्ली विडड्गम‍ । जीरद्वयं चेन्द्रयवं मुस्तादीप्यकसैन्धवम्‍ ॥४॥
कटुकातिविषा मूर्वा करञ्जस्त्वरलूग्रकम्‍ । एतद्रव्यं सूक्ष्मचूर्णं पूर्वक्वाथेन संयुतम्‍ ॥५॥
लेहपाकं च विधिवद्धात्रीफलसमानकम्‍ । उष्णोदकानुपानेन सेवयेद्दिनविंशतिम्‍ ॥६॥
द्वन्द्वज्वरं पुराणं च त्वग्निमाद्यमरोचकम्‍ । त्वग्गतास्थिगतौ रक्तगतं मांसगतं ज्वरम्‍ ॥७॥
सन्धिज्वरं च ह्यतुग्रं रात्रिज्वरमथो हरेत्‍ । त्रिदोषजं ज्वरं हन्ति श्वासकासज्वरापह: ॥८॥
गलरोगोपशमनो विषमज्वरनाशनं । कुरण्टकादिनामायं लेहा रोगाहित: सदा ॥९॥

N/A

References : N/A
Last Updated : December 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP