संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथोष्णजलविधिः ॥

॥ अथोष्णजलविधिः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


आमं जलं जीर्यति याममात्रं तदर्धमात्रं शृतशीतलं च ।
तदर्धमात्रं तु शृतं कदुष्णं पयःप्रपाके त्रय एव कालाः ॥१॥
जलाधिक्यान्मनुष्याणामामवृद्धिः प्रजायते ।
आमवृद्ध्या तु मन्दाग्निर्मन्दाग्नौ चाप्यजीर्णता ॥२॥
अजीर्णेन ज्वरोत्पत्तिर्ज्वराद्वै धातुनाशनम्‌ ।
धातुनाशात्सर्वरोगा जायन्ते चोत्तरोत्तरम्‌ ॥३॥
शर्करासहितं नीरं कफकृत्पवनापहम्‌ ।
सितासितोपलायुक्तं शुक्रलं दोषनाशनम्‌ ॥४॥
सगुडं मूत्रकृच्छ्रघ्नं पित्त्तश्लेष्मकरं भवेत्‌ ।
स्निग्धं स्वादु हिमं हृद्यं दीपनं बस्तिशोधनम्‌ ।
वृष्यं पित्तपिपासाघ्नं नारिकेलोदकं लघु ॥५॥
इति जलगुणाः ॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP