॥ अथ सैन्धवादियोग: ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
॥ अथ सैन्धवादियोग: ॥
ससैन्धवं पिबेत्सर्पिर्वातच्छर्दिनिवारणम् ॥
॥ अथ पित्तच्छर्दि: । चन्दनपानकम् ॥
चन्दनेनाक्षमात्रेण संयोज्यामलकीरसम् । पिबेन्माक्षिकसंयुक्तं पित्तच्छर्दिनिवृत्तये ॥१॥
॥ अथ लाजादियूष: ॥
लाजामसूरयवमुद्गकृता यवागूश्छर्द्यां हिता मधुयुता बहुपित्तजायाम् । यूष: सुगन्धिमधुतिक्तरसप्रयुक्तो मृद्भृष्टलोष्टभवमम्बु हितं तृषायाम् ॥ इति सारसड्ग्रहात् ॥
॥ अथ चन्दनावलेह: ॥
चन्दनं च मृणालं च वालकं नागरं वृषम् । सतण्डुलोदकक्षौद्र: पीत: कल्को वमीर्जयेत् ॥१॥
इति शार्ड्गधरात् ॥
॥ अथोदीच्यादि: ॥
सोदीच्यं गैरिकं देयं सेव्यं वा तण्डुलाम्बुना । धात्रीरसेन वा पीता सिता लाजाश्च हन्ति ताम् ॥१॥
इति चिकित्सासारात् ॥
॥ अथ मुद्गकषाय: ॥
कषायो भृष्टमुद्गानां सलाजमधुशर्कर: । छर्द्यतीसारदाहघ्नो ज्वरघ्न: सम्प्रकाशित: ॥१॥
॥ अथ योगतरिड्गिण्यां पर्पटक्वाथ: ॥
क्वाथ: पर्पटज: पीत: सक्षौद्र: शिशिरीकृत: । पित्तच्छर्दि शिरस्तापं चक्षुर्दाहं व्यपोहति ॥१॥
॥ अथ लाजसक्त्ववलेहिका ॥
सर्पि: क्षौद्रसितोपेता ल्लाजसक्तू ल्लिहेत्तत: । पित्तच्छर्दिरनेनाशु प्रशाम्यति सुदुस्तरा ॥१॥
॥ अथ गुडूच्यादिक्वाथ: ॥
गुडूचीत्रिफलारिष्टपटोलै: क्वथितं जलम् । क्षौद्रयुक्तं निहन्त्याशु च्छर्दि पित्तसमुद्भवाम् ॥१॥
इति योगसागरात् ॥
॥ अथ कफच्छर्दि: ॥
छर्द्यां कफोद्भवायां तु वमनं कारयेद्भिषक् । तोयै: सर्षपसिन्धूत्थराठनिम्बकणायुतै: ॥१॥
शस्यन्ते शालिगोधूमयवमुद्गमकुष्ठका: । षष्टिकास्तत्र यूषाश्च पटोल्याद्याश्च भोजने ॥२॥
॥ अथ विडड्गादिचूर्णम् ॥
विडड्गत्रिफलाव्योषचूर्णं मधुयुतं लिहेत् । शाम्यत्यनेन कफजा छर्दि: सोपद्रवा नृणाम् ॥१॥
इति योगतरड्गिण्या: ॥
॥ अथ रक्तशाल्यादियोग: ॥
अथ रक्तशालिभक्तं गोदधिशर्कराविमिश्रं च । कुर्याद्भोजनमेतत्कफच्छर्दिच्छिदं जन्तो: लिह्यात्कफच्छर्दिविनिग्रहार्थम् ॥१॥
॥ अथ जाम्बावादियोग: ॥
॥ योगसागरात् ॥
सजाम्बवं बादरचूर्णमम्लं मुस्तायुतं कर्कटक: सशृड्गी । दुरालभा वा मधुना च युक्ता तिह्यात्कफच्छर्दिविनिग्रहार्थम् ॥१॥
N/A
References : N/A
Last Updated : December 20, 2017
TOP