॥ अथ चूर्णम् ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
॥ अथ वृद्धगड्गाधरचूर्णम् ॥
मुस्ताबालकलोध्रवत्सकवृकीविश्वालुश्रीमदालज्जामोचरसाम्रकौटजवृषाचूर्णस्तु गड्गाधर: । पीतस्तण्डुलवारिमाक्षिकयुत: कर्षोन्मितो वाहिकामुग्रां च ग्रहणीं निहन्ति सहसा सर्वातिसारामयान् ॥१॥ इति वृद्धगड्गाधरचूर्णम् ॥
============================
॥ अथ तालीसाद्यं चूर्णम् ॥
तालीसोग्रतुगाषडूषणनिशाबिल्वाजमोदासटी चातुर्जातलवड्गधातकिविषाजातीफलं दीप्यकम् । पाठा मोचरसालञ्चलवणाजाजीद्वयं वेल्लकं वृक्षाम्लाम्लवरापलाशतरुजं मांस्यम्बुदं वालुकम् ॥१॥
ऐन्द्री ब्रम्हसुवर्चला दृढसुवर्चला दृढपदा कुष्ठं समस्तै: समं बल्या सर्वसमा जयाखिलसमा मत्स्यण्डिका वासिता । चूर्णोऽयं ग्रहणीक्षयादिकसनश्वासारुचिप्लीहहृद्दुर्नामातिसृतिज्वरार्तिपवनस्थौल्यप्रमेहप्रणतु ॥२॥
तीव्रापस्मृतिपाण्डुगुल्मजठरश्लेष्मोत्थपित्तोद्भवोन्मादध्वंसविधायको विजयते सर्वामयध्वंसक: । बालानां च विशेषतो हितकर: संस्पष्टवाणीप्रद: पुष्ठ्यायुर्बलकान्तिधीस्मृतिमहामेधाविलासप्रद: ॥३॥ इति तालिसाद्यं चूर्णम् ॥
======================================
॥ अथ जातीफलाद्यं चूर्णम् ॥
जातीफलं लवड्गैलापत्रत्वड्नागकेसरम् । कर्पूरं चन्दनं लोध्रं त्वकक्षीरीतगरामलै: ॥१॥
तालीसपिप्पलीपथ्यास्थूलजीरकचित्रकै: । शुण्ठीविड्ड्गमरिचै: समभागैर्विचूर्णितै: ॥२॥
यावन्त्येतानि चूर्णानि दद्याद्भड्गां च तावतीम् । सर्वचूर्णसमा देया शर्करा सुभिषग्वरै: ॥३॥
कर्षमात्रं तत: खादेन्मधुना प्लावीतं सुधी: । अस्य प्रभावाद्ग्रहणीकासश्वासारुचिक्षया: ॥ वातश्लेष्मप्रतिश्याया: प्रशमं यान्ति सर्वथा ॥४॥
इति जातीफलाद्यं चूर्णम् ।
N/A
References : N/A
Last Updated : December 19, 2017
TOP