संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ दोषत्रयशमनम्‌ ॥

॥ अथ दोषत्रयशमनम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


स्निग्धोष्मस्थिरवृष्यबल्यलवनस्वाद्वम्लतैलातपस्नानाभ्यञ्जनबस्तिमांसमदिरासंवाहनोद्वर्तनम्‌ । स्नेहस्वेदनिरूहनस्यशयनस्थानोपनाहादिकं पानाहारविहारभेषजमिदं वातं प्रशान्तिं नयेत्‌ ॥१॥
तिक्तस्वादुकषायशीतपवनच्छायानिशावीजनज्योत्स्नाभूग्रहवारियन्त्रजलजस्त्रीगात्रसंस्यर्शनम्‌ । सर्पिः क्षीरविरेकसेकरुधिरस्नावोपदेहादिकं पानाहारविहारभेषजमिदं पित्तं प्रशान्तिं नयेत्‌ ॥२॥
रूक्षक्षारकष्यायतिक्तकटुकव्यायामनिष्ठीवनं स्त्रीस्वाध्वनियुद्धजागरजलक्रीडापदाघातनम्‌ । धूमस्तापशिरोविरेकवमनं स्वेदापनाहादिकं पानाहारविहारभेषजमिदं श्लेष्माणमुग्रं जयेत्‌ ॥३॥
अन्यश्च । कफं दुर्जनवत्तीक्ष्णैर्वातं स्नेहेन मित्रवत्‌ पित्तं जामातरमिव मधुरैः शीतलैर्जयेत्‌ ॥४॥
कफप्रकोपे वमनं सनस्यं विरेचनं पित्तभवे विकारे । वातामये बस्तिविशोधनं च संसर्गजे च प्रविमिश्रमेतत्‌ ॥५॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP