संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ परिभाषा ॥

॥ अथ परिभाषा ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


न मानेन विना युक्तिर्द्रव्याणां जायते क्कचित्‌ ।
अतः प्रयोगकार्यार्थं मानमत्रोच्यते मया ॥१॥
मानं च द्विविधं प्रोक्तं कलिङ्गं मागधं तथा ।
कलिङ्गान्मागधं श्रेष्ठमिति मानविदो विदुः ॥२॥
त्रसरेणुर्बुधैः प्रोक्तस्त्रिंशतां परमाणुभिः ।
त्रसरेणुस्तु पर्यायनाम्ना वेशी निगद्यते ॥३॥
जालान्तरगतैः सूर्यकरैर्वंशी विलोक्यते ।
षङ्वंशीभिर्मरीचिः स्यात्ताभिः षड्भिश्च राजिका ॥४॥
तिसृभीराजिकाभिश्च सर्षपः प्रोच्यते बुधैः ।
यवोऽष्टसर्षपैःप्रोक्तो गुञ्जा स्यात्तच्चतुष्टयम्‌ ॥५॥
षड्भिस्तु रक्तिकाभिः स्यान्माषको हेमधानकः ।
माषैश्चतुर्भिः शाणस्याद्धरणः स निगद्यते ॥६॥
टङ्कः स एव कथितव्स्तद्द्वयं कोल उच्यते ।
क्षुद्रभो वटकश्चैव द्रंक्षणः स निगद्यते ॥७॥
कोलद्वयं तु कर्षः स्यात्स उक्तः पाणिमानिका ।
अक्षः पिचुः पाणितलं किञ्चित्पाणिश्च तिन्दुकम्‌ ॥८॥
बिडालपदकं चैव तथा षोडशिका मता ।
करमध्यो हंसपदं सुवर्णं कवलग्रहः ॥९॥
उदुम्बरं च पर्यायैः कर्ष एव निगद्यते ।
स्यात्कर्षाभ्यामर्धपलं शुक्तिरष्टमिका तथा ॥१०॥
शुक्तिभ्यां च पलं ज्ञेयं मुष्टिराम्रं चतुर्थिका ।
प्रकूञ्चः षोडशी बिल्वं पलमेवात्र कीर्त्यते ॥११॥
पलाभ्यां प्रसॄतिर्ज्ञेया प्रसृतश्च निगद्यते ।
प्रसृतिभ्यामञ्जलिः स्यात्‌ कुडवोऽर्धशरावकः ॥१२॥
अष्टमानं च विज्ञेयं कुडवाभ्यां च मानिका ।
शरावोऽष्टपलं तद्वद्‌ ज्ञेयमत्र विचक्षणैः ॥१३॥
शरावाभ्यां भवेत्प्रस्थश्चतुःप्रस्थैस्तथाढकम्‌ ।
भाजनं कांस्यपात्रं च चतुः षष्टिपलैश्च तत्‌ ॥१४॥
चतुर्भिराढकैर्द्रोणः कलशो नल्वणोर्मणः ।
उन्मानश्च घटो राशिर्द्रोणपर्यायसंज्ञिताः ॥१५॥
द्रोणाभ्यां शूर्पकुम्भौ च चतुःषष्टिशरावकः ।
सूर्पाभ्यां च भवेद्द्रोणी वाहो गोणी च सा स्मृता ॥१६॥
द्रोणीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः ।
चतुःसहस्रपलिका षण्णवत्यधिका च सा ॥१७॥
पलानां द्विसहस्रं च भार एकः प्रकीर्तितः ।
तुला पलशतं ज्ञेया सर्वत्रैवं विनिश्चयः ॥१८॥
माषटङ्काक्षबिल्वानि कुडवः प्रस्थमाढकम्‌ ।
राशिर्गोणी खारिकेति यथोत्तरचतुर्गुणाः ॥१९॥
गुञ्जादिमानमारभ्य यावत्स्यात्कुडवस्थितिः ।
द्रवार्द्रशुष्कद्रव्याणां तावन्मानं समं मतम्‌ ॥२०॥
प्रस्थादिमानमारभ्यद्विगुणं तद्द्रवार्द्रयोः ।
मानं तथा तुलायास्तु द्विगुणं न क्कचित्स्मृतम्‌ ॥२१॥
मृद्वृक्षवेणुलोहादेर्भाण्डं यच्चतुरङ्गुलम्‌ ।
विस्तीर्णं च तथोच्चं च तन्मानं कुडवं वदेत्‌ ॥२२॥
यदौषधं तु प्रथमं यस्य योगस्य कथ्यते ।
तन्नाम्नैव स योगो हि कथ्यतेऽत्र विनिश्चयः ॥२३॥
इति मागधपरिभाषा ॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP