॥ अथ विरेचनम् ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
स्निग्धस्विन्नाय वान्ताय दद्यात्सम्यग्विरेचनम् । अवान्तस्य त्वध: स्त्रस्तो ग्रहणीं छादयेत्कफ: ॥१॥
मन्दाग्निं गौरवं कुर्याज्जनयेद्वा प्रवाहिकाम् अथवा पाचनेनैव बलासं चापि पाचयेत् ॥२॥
स्निग्धस्य स्नेहनै: कार्यं स्वेदै: स्विन्नस्य रेचनम् । शरदृतौ वसन्ते च देहशुद्धौ विरेचयेत् ॥३॥
अन्यदात्ययिके कार्ये स्वेदनं शीलयेद्बुध: । पित्ते विरेचनं युञ्ज्यादामोद्भुते गदे तथा ॥४॥
उदरे च तथाध्माने कोष्ठशुद्धौ विशेषत: । दोषा: कदाचित्कुप्यन्ति जिता लड्घनपाचनै: ॥५॥
ये तु संशोधनै: शुद्धा न तेषां पुनरुद्भव: । बालबृद्धावतिस्निग्ध: क्षतक्षीणो भयान्वित: ॥६॥
श्रान्तस्तृषार्त: स्थूलश्च गर्भिणी च नवज्वरी । नवप्रसूता नारी च मन्दाग्रिश्च मदात्ययी वातरक्ती भगन्दरी ॥८॥
अर्श:पाण्डूदरग्रन्थिहृद्रोगारुचिपीडित: । योनिरोगप्रमेहार्तो गुल्मप्लीहव्रणार्दित: ॥९॥
विद्रधिच्छर्दिविस्फोटविषूचीकुष्ठ्संयुता: । कर्णनासाशिरोवक्रगुदमेण्ड्रामयान्विता: ॥१०॥
प्लीहशोफाक्षिरोगार्ता: कृमिक्षारानलार्दिता: शूलिनो मूत्रघातार्ता विरेकार्हा नरा मता: ॥११॥
N/A
References : N/A
Last Updated : December 17, 2017
TOP