संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ नागम्‌ ॥

॥ अथ नागम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ नागम्‌ ॥

द्रुतद्रावं महाभारं छेदे कृष्णं समुज्ज्वलम्‌ ।
पूतिगन्धं बहिःकृष्णं शुद्धं सीसमतोऽन्यथा ॥१॥

==

॥ अथ नागशोधनम्‌ ॥

नागो द्रुतोऽग्निसंयोगाद्रविदुग्धे निपातितः ।
सच्छ्रिद्रहण्डिकासंस्थं त्रिवारं शुद्धिमाप्रुयात्‌ ॥१॥

==

॥ अथ मारणम्‌ ॥

अश्वत्थचिञ्चात्वग्‌भस्म नागस्य चतुरंगतः ।
क्षिपेन्नागं पचेत्पात्रे चालयेल्लोहचाटुना ॥१॥
यामाद्भस्म तदुद्धृत्य भस्मतुल्या मनःशिला ।
जम्बीरैरारनालैर्वा पिष्ट्वा रुद्ध्वा पुटे पचेत्‌ ॥२॥
स्वाङ्गशैत्यं पुनः पिष्ट्वा विंशत्यंशशिलायुतम्‌ ।
आम्लेनैव तु यामैकं पूर्ववत्‌पाचयेत्पुटे ।
एवं षष्टिपुटैः पक्को नागः स्यात्सुनिरुत्थितः ॥३॥
अन्यच्च ।
मनःशिलागन्धयुताटरूषपरिप्लुतं नागदलं विमृष्टम्‌ ।
पुटैस्त्रिभः कुम्भमितैः प्रयाति भस्मत्वमेतत्‌प्रवदन्ति तज्ज्ञाः ॥४॥
अन्यच्च ।
ताम्बूलीरससंपिष्टशिलालेपात्पुनः पुनः ।
द्वात्रिंशद्भिः पुटैर्नागो निरुत्थो जायते ध्रुवम्‌ ॥५॥

==

॥ अथ गुणाः ॥

अत्युष्णं सीसकं स्निग्धं तिक्तं वातकफापहम्‌ ।
प्रमेहत्तोयदोषघ्नं दीपनं चामवातनुत्‌ ॥१॥
अशुद्धः कुरुते नागः प्रमेहक्षयकामलाः ।
तस्मात्‌ संशुद्ध एवायं मारणीयो भिषग्वरैः ॥२॥
इति नागः ॥

==

॥ अथोपधातवः ॥

अभ्रकं माक्षिकं तालं शिलानीलाञ्जनं तथा ।
तुत्थकं रसकं चैव प्रोक्ताः सप्नोपधातवः ॥१॥

N/A

References : N/A
Last Updated : December 15, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP