॥ अथ मधुगुणाः ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
त्रिदोषघ्नं मधु प्रोक्तमन्यत्स्यात्सन्निपातहम् ।
हिक्काश्वासकृमिच्छर्दिमोहतृष्णाविषापहम् ॥१॥
माक्षिकं भ्रामरं क्षौद्रं पौतिकं छात्रमेव च ।
आर्घ्यमौद्दालकं दालमित्यष्टौ मधुजातयः ॥२॥
माक्षिकं तैलसंकाशं भ्रामरं स्फटिकोज्ज्वलम् ।
क्षौद्रं कपिशवर्ण च पौतिकं तैलसन्निभ्बम् ॥३॥
छात्रं तत्पीतकपिलमार्घ्यं श्वेतपिशङ्गकम् ।
ओद्दालं पीतकपिलं नानावर्णं तु दालकम् ॥४॥
माक्षिकं मधुकं श्रेष्ठं नेत्रामयहरं लघु ।
पौतिकं लघु संग्राहि कफघ्नं वातपित्तकृत् ॥५॥
क्षौद्रं माक्षिकवज्ज्ञेयं विशेषान्मेहनाशनम् ।
भ्रामरं रक्तपित्तघ्नं मूत्रजाड्यकरं गुरु ॥६॥
नवीनं मध्वभिष्यन्दि स्निग्धं श्लेष्महरं सारम् ।
पुराणं ग्राहि तद्रूक्षं मेदोघ्नमतिलेखनम् ॥७॥
त्रिदोषशोषज्वरनाशनं च श्वासं प्रमेहं व्रणशोधनं च ।
पित्तं च तृष्णां नयने जलं च रक्तं च गुल्मं कृमिशूलकुष्ठम् ॥८॥
शस्त्राभिधातं ह्युरसोऽभिघातं क्षयं प्रमेहं ह्युदरं च हिक्काम् ।
पित्तातिसारं ग्रहणिगदं च सर्वाश्च रोगान्विनिहन्ति क्षौद्रम् ॥९॥
N/A
References : N/A
Last Updated : December 13, 2017
TOP