॥ अथ ग्रहणीनिदानम् ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
॥ अथ ग्रहणीनिदानम् ॥
अतिसारे निवृत्तेऽपि मन्दग्नेरहिताशिन: । भूय: सन्दूषितो वह्निर्ग्रहणीमभिदूषयेत् ॥१॥
ग्रहण्यां बलमग्निर्हि स चापि ग्रहणीं श्रित: । तस्मात्सन्दूषिते वह्नौ ग्रहणी संप्रदूष्यति ॥२॥
नाभेरुपर्यग्निबलेनोपस्तब्धोपबृंहिता । षष्ठी कला पित्तधरा या पृर्वं समुदाहृता ॥३॥
पकवामाशयमध्यस्था ग्रहणी सा प्रकीर्तिता । अपक्वं धारयत्यन्नं पक्वं सृजति पार्श्वत: ॥४॥
एकैकश: सर्वशश्च दोषैरत्यर्थमुच्छ्रितै: । सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति ॥५॥
पक्वं वा सरुजं पूति मुहुर्बद्धं मुहुर्द्रवम् । ग्रहणीरोगमाहुस्तमायुर्वेदविदो जना: ॥६॥
पूर्वरुपं तु तस्येदं तृष्णालस्यं बलक्षय: । विदाहोऽन्नविपाकश्च चिराद्देहस्य गौरवम् ॥७॥
कटुतिक्तकषायातिरुक्षसन्दुष्टभोजनै: । प्रमितानशनात्यर्थवेगनिग्रहमैथुनै: ॥८॥
मारुत: कुपितो वह्निं संछाद्य कुरुते गदान् । तस्यान्नं पच्यते दु:खं शुष्कपाक: खराड्गता ॥९॥
कण्ठास्यशोष: क्षुत्तृष्णा तिमिरं कर्णयो: स्वन: । पार्श्वोरुवड्क्षणग्रीवारुगभीक्ष्णं विषूचिका ॥१०॥
ह्रुत्पीडा कार्श्यदौर्बल्यं वैरस्यं परिकर्तिका । गृद्धि: सर्वरसानां च मनस: सदनं तथा ॥११॥
जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति च । सवातगुल्मह्रुद्रोगप्लीहाशड्की च मानव: ॥१२॥
चिराद्दु:खं द्रवं शुष्कं तन्वामं शब्दफेनवत् । पुन: पुन: सूजेद्वर्च: कास: श्वासार्दितोऽनिलात् ॥१३॥
कट्वजीर्णविदाह्यम्लक्षाराद्यै: पित्तमुल्बणम् । संप्लावयद्धन्त्यनलं जलं तप्तमिवानलम् ॥१४॥
सोऽजीर्ण नीलपीताभ: सूजति द्रवम् । पूत्यम्लोद्गारह्रुत्कण्ठदाहारुचितृडर्दित: ॥१५॥
गुर्वतिस्निग्धमधुरमन्दशीतातिभोजनात् । भुक्तमात्रस्य च स्वप्नाद्धन्त्यग्निं कुपित: कफ: ॥१६॥
तस्यान्नं पच्यते दु:खं हल्लासच्छर्द्यरोचका: । आस्योपलेपमाधुर्यंकासष्ठीवनपीनसा: ॥१७॥
हृदयं मधुर उद्गार: सदनं स्त्रीष्वहर्षनम् ॥१८॥
भिन्नामश्लेष्मसंसृष्टं गुरुवर्च:प्रवर्तनम् । अकृशस्यापि दौर्बल्यमालस्यं च कफात्मके ॥१९॥
पृथगवातादिनिर्दिष्टहेतुलिड्गसमागमे । त्रिदोषं निर्दिशेदेवं तेषां वक्ष्यामि लक्षणम् ॥२०॥
अन्त्रकूजनमालस्यं दौर्बल्यं सदनं भवेत् । द्रवं धनं सितं स्निग्धं सकटीवेदनं शकृत् ॥२१॥
आमं बहु सपैच्छिल्यं सशब्दं मन्दकूजनम् । पक्षान्मासाद्दशाद्वा नित्यं वापि प्रमुञ्चति ॥२२॥
दिवा प्रकोपमायाति रात्रौ शान्तिं व्रजेच्च सा । दुर्विज्ञेया दुर्निवारा चिरकालानुबन्धिनी ॥२३॥
सा भवेदामवातेन ग्रहणाद् ग्रहणी मता । संसृष्टा व्याधयो यस्य प्रतिलोमानुलोमगा: ॥२४॥
आपन्नग्रहणीरोग: सोऽर्धमासं न जीवति । स्वपत: पार्श्वयोर्यस्य गलज्जलघटध्वनि: ॥२५॥
तं वदन्ति घटीयन्त्रमसाध्यं ग्रहणीगदम् । अत्याहारस्य संक्षोभाद्विदग्धाहारमूर्च्छितात् ॥२६॥
स्थानात्प्रमुच्यते श्लेष्मा आमामित्यभिधीयते । अतिसारातिदिष्टानि ग्रहण्यामपि लक्षयेत् ॥२७॥
बालके ग्रहणी साध्या यूति कृच्छ्रा समीरिता । वृद्धे त्वसाध्या विज्ञेया मतं धन्वन्तरेरिदम् ॥२८॥
इति ग्रहणीनिदानम् ॥
N/A
References : N/A
Last Updated : December 17, 2017
TOP