॥ अथ अवलेह: ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
॥ अथ दाडिमावलेह: ॥
दाडिमादिफलप्रस्थं चतुष्प्रस्थजले पचेत् । चतुर्भागषायेऽस्मिजञ्शर्कराप्रस्थमेव च ॥१॥
नागरं पिप्पलीमूलं कणाधान्यकदीप्यकम् । जातीफलं जातिपत्रं मरिचं जीरकं तुगा ॥२॥
विजया निम्बपत्रं च समड्गा कूटशाल्मली । अरल्वतिविषा पाठा लवड्गं च पृथक्पलम् ॥३॥
घृतस्य मधुन: प्रस्थं सर्वलेहं विपाचयेत् । दाडिम्बलेहकं नाम ज्वरातीसारनाशनम् ॥४॥
आमरक्तं चामशूलं मान्द्यशोफक्षयापहम् । धातुलीनं धातुगतम्श्विभ्यां निर्मितं पुरा ॥५॥
इति दाडिमावलेह: ॥
===========================
॥ अथ कुटजाद्यवलेह: ॥
वत्सकस्यामृतायाश्च द्वे पले प्रस्थमम्भस: । श्रपयित्वा रसे तस्मिन्पादशेषावतारिते ॥१॥
अष्टौ पलानि शक्रस्य यवाश्चूर्णीकृताश्च ते । भुक्त्वा पाकं विदित्वा तु यथावह्नी च खादयेत् ॥२॥
जयत्सर्वातिसारांश सर्वांश्च ग्रहणीगदान् । नाशयेद्दीपयेच्चाग्निं कृष्णात्रेयस्य शासनात् ॥३॥
अन्यच्च । शतं कुट्जमूलस्य क्षुण्णं तोयार्मणे पचेत् । क्वाथे पादवशेषेऽस्मँ ल्लेहं पूते पुन: पचेत् ॥१॥
सौवर्चलयवक्षारबिडसैन्धवपिप्पली - धातकीन्द्रयवाजाजीचूर्ण दत्वा पलद्वयम् ॥२॥
लिह्याब्ददरमात्रं तु तुच्छीतं मधुसंयुतम् ॥३॥
पक्वापक्वमतीसारं नानावर्णं सवेदनम् । दुर्वारं ग्रहणीरोगं जयेच्चैत्प्रवाहिकाम् ॥४॥
अन्यच्च । कुटजस्य पलं ग्राह्यमष्टभागजले शृतम् । तथैव विपचेद्भयो दाडिमोदकसंयुतम् ॥१॥
कुटजक्वाथतुल्योऽत्र दाडिमस्य रसो मत: । यावच्च रसिकाभासं शृतं तमुपकल्पयेत् ॥२॥
तस्यार्धकर्षं तक्रेण पिबेद्रक्तातिसारवान् । अवश्य मरणीयोऽपि न मृत्योर्याति गोचरम् ॥३॥
इति कुटजावलेह: ॥
अथ कुटजाष्टकम् ॥ पक्त्वाद्रां कुटजात्तुलां जलघटेऽष्टांशं पुन: पालिकै: पाठाशाल्मलिधातकीघनविषालज्जामबिल्वै: सह ॥
तल्लिह्याकुटजाष्टकं जलगवां क्षीरेण मण्डानुपोऽतिसारं ग्रहणीमसृग्दरमसृक्पित्तासृगर्शो जयेत् ॥१॥
इति कुटजाष्टकम् ॥
N/A
References : N/A
Last Updated : December 17, 2017
TOP