संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ भस्मकरोगनिदानचिकित्से ॥

॥ अथ भस्मकरोगनिदानचिकित्से ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ भस्मकरोगनिदानचिकित्से ॥
कफे क्षीणे यदा पित्तं स्वस्थाने मारुतानुगम्‍ । तीव्रं प्रवर्तयेद्वह्निं तदा तं भस्मकं वदेत्‍ ॥१॥
तृड्‍दाहश्वासमूर्छादीन्‍ कृत्वैवात्यग्निसंभवात्‍ । पक्त्वान्नमाशु धात्वादीन्‍ स क्षिप्रं नाशयेत्तनुम्‍ ॥२॥
तं भस्म्कं गुरुस्त्रिग्धसान्द्रमण्डहिमादिभि: । अन्नपानैर्नच्छान्तिं पित्तघ्नैश्व विरेचनै: ॥३॥
अत्युद्धताग्निशान्त्यै माहिषदधिदुग्धर्पीषि । सेवेत वा यवागूं समधूच्छिष्टां ससर्पिष्काम्‍ ॥४॥
असकृत्‍ पित्तहरणं पायसं प्रतिभोजने । श्यामात्रिवृद्विपक्वं वा पयो दद्याद्विरेचनम्‍ ॥५॥
यत्किञ्चिन्मधुरं मेध्यं श्लेष्मलं गुरु भोजनम्‍ । सर्वं तदत्यग्निहितं भुक्त्वा प्रस्वपनं दिवा ॥६॥
कफे पूर्वं जिते पित्ते मारुते चानल: सम: । समधातो: पचत्यन्नं पुष्ट्यायुर्बलवर्धनम्‍ ॥७॥
आहारं पचति शिखी दोषानाहारवर्जित: पचति । दोषक्षये च धातून्‍ धातूक्षैण्ये तथा प्राणान्‍ ॥८॥
मुहुर्मुहुरजीर्णेऽपि भोज्यान्यस्योपहारयेत्‍ । निरिन्धनो‍ऽन्तरं लब्ध्वा यथैनं न विषादयेत्‍ ॥९॥
कोलास्थिमज्जकल्कस्तु पीतो वाप्युदकेन वै । अचिराद्विनिहन्त्येवं प्रयोगो भस्मकं नृणाम्‍ ॥१०॥
नारीक्षीरेण संपिष्य पिबेदौ दुम्बरत्वचम्‍ । ताभ्यां वा पायसं सिद्धं पिबेदत्यग्निशान्तये ॥११॥
सिततण्डुलसितकलमाक्षीरेण पायसं सिद्धम्‍ । भुक्त्वा दत्तेन पुरुषो द्वादश दिवसान्‍ बुभुक्षितो न भवेत्‍ ॥१२॥
विदारिस्वरसे क्षीरे पचेदष्टगुणं घृतम्‍ । माहिषं जीवनीयेन कल्केनात्यग्निनाशनम्‍ ॥१३॥
इति भस्मकरोगनिदानचिकित्से ॥

N/A

References : N/A
Last Updated : December 19, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP