॥ अथ द्राक्षासवः ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
मृद्वीकाया: पलशतं चतुर्द्रोणेऽम्भस: पचेत् । द्रोणशेषे तु शीते च पूते तस्मिन्प्रदापयेत् ॥१॥
द्वशते क्षौद्रखण्डाभ्यां धातक्या: प्रस्थमेव च । कक्कोलकलवड्गे च जातीसस्यं तथैव च ॥२॥
पलांशकानि मरिचं त्वगेलापत्रकेसरै: । पिप्पली चित्रकं चव्यं पिप्पलीमूलरेणुकम् ॥३॥
घृतभाण्डस्थितमिदं चन्दनागुरुधूपितम् । कर्पूरवासितो ह्येष ग्रहणीदीपन: परम् ॥४॥
अर्शसां नाशन: श्रेष्ठ उदावर्तास्त्रगुल्मनुत् । जठरक्रिमिकुष्ठानि व्रणांश्च विविधांस्तथा ॥५॥
अक्षिरोगशिरोरोगगलरोगविनाशन: । ज्वरमामं महाव्याधिं पाण्डुरोगं सकामलम् ॥ नाम्ना द्राक्षासवो ह्येष बृहणो बलवर्णकृत् ॥६॥
इति गदनिग्रहाद्राक्षासव: ।
N/A
References : N/A
Last Updated : December 19, 2017
TOP