संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ गुणाः ॥

॥ अथ गुणाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


स्वर्णं शीतं पवित्रं क्षयवमिकसनश्वासमेहास्रपित्त - क्षैण्यक्ष्वेडक्षतास्रप्रदरगदहरं स्वादुतिक्तं कषायम्‌ ।
वृष्यं मेघाग्निकान्तिप्रदमधुरसरं कार्श्यहारि त्रिदोषोन्मादापस्यारशूलज्वरजयि वपुषो बृंहणं नेत्रपथ्यम्‌ ॥१॥
एतद्भस्म सुवर्णजं कटु घृतोपेतं द्विगुञ्जोन्मितं लीढं हन्ति नृणां क्षयाग्निसदनं श्वासं च कासारुची ।
ओजोधातुविवर्धनं बलकरं पाण्ड्वामयध्वंसनं पथ्यं सर्वविषापहं गदहरं दुष्टग्रहण्यादिहृत्‌ ॥२॥
बलं च वीर्यं नराणां रोगव्रजान्पोषयतीहकाये ।
असौख्यकार्येव सदैव हेमापक्तं सदोषं मरणं करोति ॥३॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP