संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ रीतिकांस्ये ॥

॥ अथ रीतिकांस्ये ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


रीतिका द्विविधा ज्ञेया तत्राद्या राजरीतिका ।
काकतुण्डी द्वितीया सा तयोराद्या गुणाधिका ॥१॥
संतप्ता काञ्जिके क्षिप्ता ताम्रा स्याद्राजरीतिका ।
काकतुण्डी तु कृष्णा स्यान्नासौ सेव्या विजानता ॥२॥
कांस्यं च द्विविधं प्रोक्तं पुष्पतैलिकभेदतः ।
पुष्पं श्वेततमं तत्र तैलिकं कपिशप्रभम्‌ ॥३॥
एतयोः प्रथमं श्रेष्ठं संसेव्यं रोगशान्तये ।
राजरीतिस्तथा घोषं ताम्रवच्छोधयेद्भिषक्‌ ॥४॥
ताम्रवन्मारणं चापि तयोरुक्तं भिषग्वरैः ।
रीतिकायुगुलं रूक्षं सतिक्तं लवणं रस्म‌ ।
शोधनं पाण्डुरोगघ्नं कृमिघ्नं लेखनं हिमम्‌ ॥५॥
कांस्यं कषायं तिक्तोष्णं लेखनं विशदं सरम्‌ ।
रूक्षं गुरु च चक्षुष्यं कफपित्तहरं परम्‌ ॥६॥
इति रीतिकांस्यामारणगुणाः ॥

N/A

References : N/A
Last Updated : December 15, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP