॥ अथ विषम् ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
कालकूटो वत्सनाभ: शृड्गकश्च प्रदीपन: । हालाहलो ब्रम्हपुत्रो हरिद्र: सक्तुकस्तथा ॥ सौराष्ट्रिक इति प्रोक्ता विषभेदा अमी नव ॥१॥
ब्राम्हण: पाण्डुरस्तेषु क्षत्रियो रक्तवर्णक: । वैश्य: पीतप्रभ: शूद्र: कृष्णाभ: स तु निन्दित: ॥२॥
रसायने विषं विप्रं देहपुष्टौ तु बाहुजम् । कुष्ठ्नाशे प्रयुञ्जीत वैश्यं शूद्रं तु धातुषु ॥३॥
विषं प्राणहरं युक्त्या प्राणकूच्च रसायनम् । योगवाहि परं श्लेष्मवातहृत्सन्निपातजित् ॥४॥
॥ अथ विषशोधनम् ॥
विषं तु खण्डश: कृत्वा वस्त्रखण्डेन बन्धयेत् । गोमूत्रमध्ये निक्षिप्य स्थापयेदातपे त्र्यहम् ॥१॥
गोमूत्रं तु प्रदातव्यं नूतनं प्रत्यहं बुधै: । त्र्यहेऽतीते तदुद्धृत्य शोषयेन्मृदु पेषयेत् ॥ शुध्यत्येवं विषं सेव्यं योग्यं भवति चार्तिजित् ॥२॥
अन्यच्च । खण्डीकृत्य विषं वस्त्रपरिबद्धं तु दोलया । अजापयसि सस्विन्नं यामत: शुद्धिमाप्रुयात् ॥ अजादुग्धाभावतस्तु गव्यक्षीरेण भावयेत् ॥१॥
अन्यच्च । विषग्रन्थिं मले न्यस्य माहिषे दृढमुद्रितम् । करीषाग्नौ पचेद्यामं वस्त्रपूतं विषं शुचि ॥१॥
अन्यच्च । कणशो वत्सनागं च कृत्वा बदध्वा च कर्पटे । दोलायत्रे जलक्षीरे प्रहराच्छुद्धिमृच्छति ॥१॥
॥ अथ विषमारणम् ॥
तुल्येन टड्कणेनैव द्विगुणेनोषेन च । विषं संयोजितं शुद्धं मृतं भवति सर्वथा ॥१॥
॥ अथ गुणा: ॥
विषं रसायनं बल्यं वातश्लेष्मविकारनुत् । कटुतिक्तकषायं च मदकारि सुखप्रदम् ॥१॥
व्यवायि शीतनुद्दाहि कुष्ठवातास्त्रनाशनम् । अग्निमान्द्यश्वासकास्प्लीहोदरभगन्दरान् ॥ गुल्मपाण्डुव्रणार्शासि नाशयेत्क्रमशो नृणाम् ॥२॥
इति विषम् ॥
N/A
References : N/A
Last Updated : December 17, 2017
TOP