संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ ज्वरे पथ्यानि ॥

॥ अथ ज्वरे पथ्यानि ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ ज्वरे पथ्यानि ॥
तण्डुलीयकवास्तूकबालमूलकपर्पटान्‍ । पटोलं तिक्तशाकं च गुडूचीपल्लवान्यपि ॥१॥
कालशाकं निम्बपुष्पं मारीषं दार्विकादलम्‍ । जीवन्ति चापि चाड्गेरी सुनिषण्णकमाविकै: ॥२॥
पत्रशाकप्रियाणां तु ज्वरितानां प्रदापयेत्‍ । मुद्गान्मसूरांश्चणकान्कुलित्थांश्च मकुष्ठान्‍ ॥३॥
यूषार्थ यूषसात्म्यानां ज्वरितानां प्रदापयेत्‍ । लावान्कपिञ्जलानेणान्पॄषतान्सरभाञ्शशान्‍ ॥४॥
कालपुच्छान्कुरड्गांश्च तथैव मृगमात्रकान्‍ । मांसार्थं मांससात्म्यनां ज्वरितानां न शस्यन्ते इति केचिद्यवस्थिता: ॥६॥
वृन्ताकपीलुकर्कोटपटोलककटिल्लकम्‍ । फलशाककृते देयं सर्वं नि:स्नेहमेव च ॥७॥
वत्सरोषितधान्यस्य तण्डुलान्धो ज्वरे हितम्‍ । रोटिकार्थं प्रदातव्यं द्विवर्षोषितमल्पश: ॥ गोधूमादि यदा सात्म्यन्यदप्यल्पमर्पयेत्‍ ॥८॥
इति सुश्रुतात्‍ ॥

॥ अथौषधग्रहणविचार: ॥
तत्रोपविश्य विश्रान्त: प्रसन्नवदनेक्षण: । औषधं हेमरजतमृद्भाजनपरिष्ठितम्‍ ॥१॥
पिबेत्प्रसन्नवदन: पीत्वा पात्रमधो मुखम्‍ । निक्षिप्य पात्रे सलिलं ताम्बूलाद्युपकप्लयेत्‍ ॥२॥
यमदूतपिशाचाद्या यक्षगन्धर्वराक्षसा: । ते घ्रन्त्यौषधवीर्याणि ततो गण्डूषवर्जनम्‍ ॥३॥
क्वाथस्य कल्कस्य रसस्य यामं मासत्रयं चाञ्जनचूर्णवीर्यम्‍ । षण्मासकाख्यं गुडलेहवीर्यं संवत्सरं तैलघृतस्य वीर्यम्‍ ॥४॥

॥ अथ ज्वरे पाचनम्‍ ॥
यत्पचत्याममाहारं पचेदामं रसं च यत्‍ । यदपक्वान्पचेद्दोषांस्तद्धि पाचनमुच्य ॥१॥
न शोधयति यद्दोषान्समात्रोदीरयत्यपि । समीरकरोति संवृद्धांस्तत्संशमनमुच्यते ॥२॥
तयो: संप्रदानकालं चाह । पाययेदातुरं सामं पाचनं सप्तमे दिने । शमनेनाथवा दृष्ट्वा निरामं समुपाचरेत्‍ ॥३॥

॥ अथ वातज्वरे ॥
गुडूचीपिप्पलीमूलनागरै: पाचनं स्मृतम्‍ । दद्याद्वातज्वरे तूर्णं लिड्गे सप्तमवासरे ॥१॥
इति गुडूच्यादिपाचनम्‍ । किराताब्दामृतोदीच्यबृहतीद्वयगोक्षुरै: । सस्थिराकलशीविश्वै: क्वाथो वातज्वरापह: ॥२॥
इति किरातादि: । शालिपर्णी बला रास्त्रा गुडूचि सारिवा तथा । आसां क्वाथं पिबेत्कोष्णं तीव्रवातज्वरच्छिदम्‍ ॥३॥
इति शालिपर्ण्यादि: । काश्मरीसारिवाद्राक्षात्रायमाणामृतोद्भव: । कषाय: सगुड: पीतो वातज्वरविनाशन: ॥४॥
इति काश्मर्यादि: । मरीचं रुचकं शुण्ठी किरातं च हरीतकी । पिप्पली कटुका चैव वातज्वरविनाशनम्‍ ॥५॥
इति मरीचादि: । त्रिफलाव्योषगुडयुक्‍ शर्करात्रिवृतार्धकम्‍ । मोदकं भक्षयित्वा तु पिबेच्चोष्णं जलं पुन: ॥ पार्श्वशूलेऽरुचौ कासे ज्वरे
चानिलसंभवे ॥६॥
इति त्रिफलाद्यो मोदक: ॥
===
॥ अथ पित्तज्वरे ॥
कट्‍फलेन्द्रयवाम्बातिक्तामुस्तै: शृतं जलम्‍  । पाचनं दशमेऽह्नि स्यात्तीव्रे पित्तज्वरे नृणाम्‍ ॥१॥
इति कट्‍फलादिपाचनम्‍ । दुरालभापर्पटकप्रियड्गुभूनिम्बवासाकटुरोहिणीनाम्‍ ॥ क्वाथं पिबेच्छर्करयावगाढं तृष्णास्त्रपित्तज्वरदाहयुक्त: ॥२॥ इति दुरालभादि: ॥
द्राक्षाभयापर्पटकाब्द तिक्ताक्वाथं सशम्याकफलं विदध्यात्‍ । प्रलापमूर्छाभ्रमदाहशोषतृषान्विते पित्तभवे ज्वरे च ॥३॥
इति द्राक्षादि: ॥
एक: पर्पटक: श्रेष्ठ: पित्तज्वरविनाशन: । किं पुनर्यदि युज्येत चन्दनोशीरधान्यकै: ॥४॥
इति पर्पटादिवृन्दात्‍ । औदुम्बरस्य निर्यास: सितया दाहनाशन: । छिन्नासार: सितायुक्त: पित्तज्वरनिषूदन: ॥५॥
द्राक्षा चैव गुडूची च मुस्ता पर्पटकं तथा । कटुका च समै: क्वाथ: पित्तज्वरविनाशन: ॥६॥
चन्दनं च सगन्धं च वालकोशीरर्पपट: । मुस्ताशुण्ठीसमायुक्त: पित्तज्वरनिषूदन: ॥७॥
अहो किमर्थं बहव: कषाया: पराशराद्यैर्मुनिभि: प्रदिष्टा: । पित्तज्वरधंसकृते न किं स्यात्क्वाथो गुडूच्यामलपर्पटानाम्‍ ॥८॥
जलजलजलवाहरेणुविश्वौषधशिशिरै: शिशिरीकृत: कषाय: । हर हर हरति ज्वरं प्रकृष्टं सवमि निदाघतृषं निपीयमान: ॥९॥
असीतवारिणा सितासितायुता तु रोहिणी । विदाहतृड्‍श्र्त्रमान्वितं निहन्ति पित्तजज्वरम्‍ ॥१०॥
निम्बपल्लवसम्भूतरसफेनप्रलेपनात्‍ । तृड्‍दाहमोहा: प्रशमं यान्ति पित्तसमुद्भवा: ॥११॥
केसरं मातुलिड्गस्य मधुसैन्धवसंयुतम्‍ । जिह्वातालुगलक्लोमशोषे मूर्धनि दापयेत्‍ ॥१२॥

॥ अथ कफज्वरे ॥
बीजपूरशिफाषथ्यानागरग्रन्थिकै: । सक्षारं पाचनं श्लेष्मज्वरे द्वादशवासरे ॥१॥
इति बीजपूरादिपाचनम्‍ । भूनिम्बनिम्बपिप्पल्य: शटी शुण्ठी शतावरी । गुडूची बृहती चेति क्वाथो हन्यात्कफज्वरम्‍ ॥२॥
पटोलत्रिफलातिक्ताशटीवासाम्रुतोद्भव: । क्वाथो मधुयुत: पीतो हन्यात्कफकृतं ज्वरम्‍ ॥३॥
निदिग्धिकाछिन्नरुहोपकुल्याविश्वौषधै: साधितमम्बु पीतम्‍ । हन्ति ज्वरश्वासबलासकासशूलग्रिमान्द्यं जठरानिलं च ॥४॥
शृड्कीकणाकट्‍फलपौष्काराणां क्षौद्रान्वितानां विहितोऽवलेह: । श्वासेन कासेन युतं बलासज्वरं जयेदत्र न कापि शड्का ॥५॥
इति चातुर्भद्रावलेहिका । भार्डीगुडूचीधनदारुसिंहीशुण्ठीकणापुष्करज: कषाय: । ज्वरं निहन्ति श्वसनं क्षिणोति क्षुधां करोति प्ररुचिं तनोति ॥१॥

॥ अथ सर्वज्वरे ॥
आमलक्यभया कृष्णा चित्रकश्चेत्ययं गण: । सर्वज्वरभयातड्गभेदी दीपनपाचन: ॥१॥
अमृतारिष्टकचन्दनपद्मकधान्योद्भव: क्वाथ: । ज्वरहृल्लासच्छर्दितृष्णादाहारुचिर्हुन्यात्‍ ॥२॥
छिन्नोद्भवाम्बुधरधन्वयवासविश्वैर्दु: स्पर्शपर्पटकमेघकिरातनिक्तै: । मुस्ताटरुषकमहौषधधन्वयासै: क्वाथं पिबेदनिलपित्तकफज्वरेषु ॥३॥
धान्याचित्रकसिन्धूत्थयुक्तस्तक्रेण योऽन्वित: । मृष्टश्च हिड्गुतैलाभ्यां स मण्डोऽष्टगुण: स्मृत: ॥४॥
दीपन: प्राणदो बस्तिशोधनो रक्तवर्धन: । ज्वरजित्सर्वदोषघ्नो मण्डोऽष्टगुण उच्यते ॥५॥
इत्यष्टगुणमण्ड: ॥

॥ अथ वातपित्तज्वरे ॥
छिन्नोद्भवापर्पटवारिवाहभूनिम्बशुण्ठीजनित: कषाय: । समीरपित्तज्वरजर्जराणां करोति भद्रं खलु पञ्चभद्र: ॥१॥
पञ्चमूल्यमृतामुस्ताविश्वाभूनिम्बसाधित: । कषाय: शमयत्याशु वातपित्तभवज्वरम्‍ ॥२॥
त्रिफलाकाश्मरीरास्त्राराजवृक्षाटरुषकै: । शृतमम्बु हरेत्तूर्णं वातपित्तोद्भवं ज्वरम्‍ ॥३॥
इति वृन्दात्‍ ।

॥ अथ वातश्लेष्मज्वरे ॥
सिंहीयवानीछिन्नानां क्वाथश्चपलया युत: कफवातजरश्वासशूलपीनसकासजितु ॥२॥
क्षुद्रामृतानागरपुष्कराह्वै: कृत: कषाय: । कफमारुत्तोत्तरे । सश्वासकासारुचिपार्श्वशूले ज्वरे त्रिदोषप्रभवेऽपि शस्यते ॥२॥
आरग्वधकणामूलमुस्तातिक्ताभयाकृत: । क्वाथ: शमयति क्षिप्रं ज्वरं वातकफोद्भवम्‍ ॥३॥
मुस्ता पर्पटकं शुण्ठी गुडूची सदुरालभा । कफवातारुचिच्छार्दिदाहशोषज्वरापहा: ॥३॥
भूनिम्बमुस्ताकटुकीगुडूचीदुरालभापर्पटनागराख्यै: । क्वाथोऽनिलश्लेष्महरो वदन्ति सूर्योयथा नाशयतेऽन्धकारम्‍ ॥४॥

॥ अथ पित्तश्लेष्मज्वरे ॥
अमृतारिष्टकटुकामुस्तेन्द्रयवनागरै: । पटोलचन्दनाभ्यां च पिप्पलीचूर्णयुक्‍ स्मृतम्‍ ॥१॥
अमृताष्टकमेतच्च पित्तश्लेष्मज्वरापहम्‍ । छर्द्यरोचकहृल्लासदाहतृष्णानिवारणम्‍ ॥२॥
इत्यमृताष्टकम्‍ । पटोलं चन्दनं मूर्वा पाठा तिक्तामृता कणा । पित्तश्लेष्मज्वरच्छर्दिदाहकण्डूविषापहा: ॥३॥
इति पटोलादि: । पटोलं पिचुमन्दं च त्रिफला मधुकं बला । साधितोऽयं कषाय: स्यात्पित्तश्लेष्मभवे ज्वरे ॥४॥
तिक्तोशीरबलाधान्यपर्पटाम्भोधरै: कृत: । क्वाथ: पुन: समायातं ज्वरं शीघ्रं निवारयेत्‍ ॥५॥
इति तिक्तादि: । कण्टकार्यमृताभार्डीनागरेन्द्रयवासकम्‍ । भूनिम्बं चन्दनं मुस्ता पटोलं कटुरोहिणी ॥६॥
कषायं पाययेदेतं पित्तश्लेष्मज्वरापहम्‍ । दाहतृष्णारुचीहिक्वाकासहृत्पार्श्वशूलहत्‍ ॥७॥
लोहितचन्दनपद्मकधान्यच्छिन्नरुहापिचुमन्द कषाय: । पित्तकफज्वरदाहपिपासावान्तिविनाशहुताशकर: स्यात्‍ ॥८॥
लाजैर्वा तण्डुलैर्भृष्टैर्लाजामण्ड: प्रकीर्तित: । श्लेष्मपित्तहरो ग्राही पिपासाज्वरजिन्मत: ॥९॥
इति लाजामण्ड: । जरिकं कारवेल्लाम्बु शीतपूर्वज्वरे हितम्‍ ॥१०॥

॥ अथ सन्निपाते ॥
संनिपातज्वरे पूर्वं कुर्यादामकफापहम्‍ । पश्चाच्छ्लेष्मणि संक्षिणे शमयेपित्तत्पित्तमारुतौ ॥१॥
लड्घनं वालुकास्वेदो नस्यं निष्ठीवनं तथा । अवलेहोऽञ्जनं चैव प्राकप्रयोज्यं त्रिदोषजे ॥२॥
त्रिरात्रं पञ्चरात्रं वा दशरात्रमथापि वा । लड्घनं संनिपातेषु कुर्यादारोग्यदर्शनात्‍ ॥३॥
दोषाणामेव सा शक्तिर्लड्घने या सहिष्णुता । कश्चिद्दोषविमुक्तो न लड्घनं सहते नर: ॥४॥
रसस्थे रससंशुद्धी रक्तस्थे रक्तमोक्षणम्‍ । मांसस्थे रेचनं शस्तं मेद:स्थे चासहिष्णुता ॥५॥
रेचनं वमनं स्वेदश्चास्थिस्थे स्वेदमर्दनम्‍ । मज्जाशुक्रशयं दृष्ट्वा तमसाध्यं ज्वरं वदेत्‍ ॥६॥
क्रियायास्तुगुणालाभे क्रियामन्यां प्रयोजयेत्‍ । पूर्वस्यां शान्तवेगायां न क्रियासंकरो हित: ॥७॥
तप्तायोलाञ्छनं पञ्चताल्वादिषु त्रिदोषजे । रुद्राभिषेकभूदेवभोजनग्रहजाप्यत: ॥ मन्त्ररक्षादिभि: कार्या सन्निपातप्रतिक्रिया ॥८॥

N/A

References : N/A
Last Updated : December 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP