॥ अथ हिड्गुल: ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
दरदस्त्रिविध: प्रोक्तश्चर्मार: शुकतुण्डक: । हंसपादस्तृतीयस्तु गुणवानुत्तरोत्तरम् ॥१॥
चर्मारस्त्वतिरक्त: स्यात्किञ्चित्पीत: शुकास्यक: । श्वेतरेख: प्रवालाभो हंसपाद: स उच्यते ॥२॥
अशुद्धो दरद: कुर्यादान्ध्यं क्षैण्यं क्ल्मं श्रमम् । मोहं मेहं च संशोध्य: क्रमाद्वैद्यैस्तु हिड्गुल: ॥३॥
मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम् । सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् ॥४॥ इति शोधनम् ॥
॥ अथ मारणम् ॥
वल्लमात्रं तालपिष्टं शरावि स्थापयेत्तत: । तस्मिन्कर्षसमं देयं शकलं दरदस्य च ॥१॥
पूरयेदार्द्रकरसं द्विगुणं तत्र बुद्धिमान् । पुष्पाणि माषमात्राणि परित: स्थापयेत्तत: ॥२॥
शरावसम्पुटे दत्वा चुल्यां मध्याग्निना पचेत् । घटिकात्रयपर्यन्तं तत उत्तार्य पेषयेत् ॥३॥
ताम्बूले गुञ्जमात्रं तु देयं पुष्तिकरं मतम् । पाण्डौक्षये च शूले च सर्वरोगेषु योजयेत् ॥४॥ इति दरदमारणम् ॥
N/A
References : N/A
Last Updated : December 17, 2017
TOP