॥ अथ वातरक्तचिकित्सा ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
॥ अथ वातरक्तचिकित्सा ॥
वातरक्तं द्विधा ज्ञेयं गम्भीरोत्तानभेदत: । त्वड्मांसाश्रमयुत्तानं गम्भीरं त्वन्तराश्रयम् ॥१॥
कालातिक्रान्तमेतत्तु कष्टं भवति दुर्धरम् । विरेकास्थापनस्नेहैर्गम्भीरं तदुपाचरेत् ॥२॥
उत्तानं लेपनाभ्यड्गपरिषेकावगाहनै: । वाताधिकं वातरक्तं स्नेहाद्यै: समुपाचरेत् ॥३॥
रक्ताढ्यं रक्तमोक्षाद्यै: पित्ताद्यं रेचनादिभि: कफाद्यं वमनाद्यैश्च प्रोक्तैरत्रौषधैर्भिषक् ॥४॥
संसर्गे सन्निपाते च क्रियां मिश्रां समाचरेत् । वातरक्ते द्वित्रिलिड्गे द्वित्रिहेतुसमुत्थिते ॥५॥
वातशोणितिनो रक्तं स्निग्धस्य बहुशओ हरेत् । अल्पाल्पं रक्षता युक्तं यथादोषं यथाबलम् ॥६॥
सर्वत्रासृकस्त्रुति: सूचीजलूकाशृड्ग्यलाबुभि: । शतधौतघृताभ्यड्गो मेषीदुग्धावसेचनम् ॥७॥
रुक्षैर्वामृदुभि: शस्तमसकृब्दस्तिकर्म च । न हि बस्तिसमं किञ्चिद्वातरक्ते चिकित्सितम् ॥८॥
॥ अथ क्वाथा: ॥
अथ वासादिक्वाथ: । वासागुडूचीचतुड्गुलानामेरण्डतैलेन पिबेत्कषायम् । क्रमेण सर्वाड्गजमप्यशेषं जयेदसूग्वातभवं विकारम् ॥१॥
योगशतात् ॥ अथ नवकार्षिकक्वाथ: ॥ दार्विगुडूचीकटुकोग्रगन्धामञ्जिष्ठनिम्बत्रिफलाकषाय: । वातास्त्रमुच्चैर्नवकार्षिकाख्यो जयेच्च कुष्ठानखिलान्नराणाम् । पञ्चतिक्तकषायेण योजयेन्नवकार्षिकम् ॥१॥
इति सारसड्ग्रहान्नवकार्षिकक्वाथ: ॥ अथ गुडूच्यादि: । वत्सादन्युद्भव: क्वाथ: पीतो गुग्गुलुमिश्रित: । समीरेण समायुक्तं शोणितं संप्रणाशयेत् ॥१॥
इति गुडूच्यादि: कदम्बात् ॥ अथ काश्मर्यादि: ॥ पित्तोत्तरे तु कार्श्मर्यद्राक्षारग्वधचन्दनै: । मधुकक्षीरकाकोलीयुक्तै: क्वाथं सुशीतलम् ॥ शर्करामधुसंयुक्तं वातरक्ते पिबेन्नर: ॥१॥
इति योगत: । अथ पटोलादि: । पटोलत्रिफलाभीरुकटुकामृतसाधितम् । क्वाथं पीत्वा जयत्याशु सदाहं वातशोणितम् ॥१॥
इति वृन्दात् ॥ अथ लघुमञ्जिष्ठादि: ॥ मञ्जिष्ठा त्रिफला तिक्ता वचा दारु निशामृता । निम्बश्चैषां कृत: क्वाथो वातरक्तविनाशन: ॥ पामाकपालिकाकुष्ठरक्तमण्डलजिन्मत: ॥१॥ इति शार्ड्गधरात् ॥ अथ बृहन्मञ्जिष्ठादि: ॥
मञ्जिष्ठामुस्तकुटजगुडूचीकुष्ठनागरै: । भार्गीक्षुद्रावचानिम्बानिशाद्वयफलत्रिकै: ॥१॥
पटोलकटुकामूर्वाविडड्गासनचित्रकै: । शतावरीत्रायमाणाकृष्णेन्द्रयववासकै: ॥२॥
भॄड्गराजमहादारुपाठाखदिरचन्दनै: । त्रिवृद्वरूणकैरातबाकुचीकृतमालकै: ॥३॥
शाखोटकमहानिम्बकरञ्जातिविषाजलै: । इन्द्रवारुणिकानन्तासारिवापर्पटै: समै: ॥४॥
एभि: कृतं पिबेत्क्काथं कणागुग्गुलुसंयुतम् । अष्टादशेषु कुष्ठेषु वातरक्तार्दिते तथा ॥५॥
उपदंशे श्लीपदे च प्रसुप्तौ पक्षाघातके । मेदोदोषि नेत्ररोगे मञ्जिष्ठादि: प्रशस्यते ॥६॥
इति बृहन्मञ्जिष्ठादि: शार्ड्गधरात् ॥ इति क्वाथा: ॥
॥ अथ गुग्गुलू ॥
तत्र प्रथमस्तु कैशोरगुग्गुलु: । त्रिफलायास्त्रय: प्रस्था: प्रस्थैकममृता भवेत् । संक्षुद्य लोहपात्रे तु सार्धद्रोणाम्बुना पचेत् ॥१॥
जलमर्धं शृतं ज्ञात्वा गृह्णीयाद्वस्त्रगालितम् । तत: क्वाथे क्षिपेच्छुद्धं गुग्गुलं प्रस्थसम्मितम् ॥२॥
पुन: पचेदयस्पात्रे दर्व्या संघट्टयेन्मुहु: । सान्द्रीभूतं च तं ज्ञात्वा गुडपाकसमाकृतिम् ॥३॥
चूर्णीकृत्य ततस्तत्र द्रव्याणीमानि निक्षिपेत् । त्रिफला द्विपला ज्ञेया गुडूची पलिका मता ॥४॥
षडक्षं त्र्यूषणं प्रोक्तं विड्ड्गं च पलार्धकम् । दन्ती कर्षमिता कार्या त्रिवृत्कर्षमिता स्मृता ॥५॥
तत: पिण्डीकृतं सर्वं घृतभाण्डे विनिक्षिपेत् । गुटिका: शाणिका: कृत्वा युञ्ज्याद्दोषाद्यपेक्षया ॥६॥
अनुपानं भिषग् दद्यात्कोष्णं नीरं पयोऽथवा । मञ्जिष्ठादिशृतं वापि युक्तियुक्तमत: परम् ॥७॥
जयेत्सर्वाणि कुष्ठानि वातरक्तं त्रिदोषजम् सर्वव्रणांश्च गुल्मांश्च प्रमेहपिटकास्तथा ॥८॥
प्रमेहोदरमन्दाग्निकासश्वयथुपाण्डुता: । हन्ति सर्वामयान्नित्यमुपयुक्तो रसायन: ॥९॥
कैशोरकाभिधानोऽयं गुग्गुल: कान्तिकारक: । वासादिना नेत्रगदान् गुल्मादीन्वरुणादिना ॥१०॥
क्वाथेन खदिरस्यापि व्रणान्कुष्ठान्विनाशयेत् । आम्लं तीक्ष्णमजीर्णं च व्यवायं श्रममातपम् ॥ मद्यं रोषं त्यजेत्सम्यगगुणार्थी पुरसेवक: ॥११॥
इति शार्ड्गधरात् कैशोरगुग्गुल: ॥ अथामृतगुग्गुल: ॥ वृन्दात् ॥ प्रस्थमेकं गुडूच्याश्च सार्धप्रस्थं तु गुग्गुलो: । प्रत्येकं त्रिफलायाश्च तत्प्रमाणं विनिर्दिशेत् ॥१॥
सर्वमेकत्र संक्षिप्य क्वाथयेन्नल्वणेऽम्भसि । पादशेषं परिश्वाव्य कषायं ग्राहयेद्भिषक् ॥२॥
पुन: पचेत्कषायं तु यावत्सान्द्रत्वमाप्नुयात् । दन्तीव्योषविडड्गानि गुडूचीत्रिफलात्वच: ॥३॥
ततश्चार्धपलं पूतं गृह्णीयाद्वा प्रति प्रति । कर्षं तु त्रिवृतायाश्च सर्वमेकत्र चूर्णयेत् ॥४॥
तस्मिन्सुसिद्धं विज्ञाय कोष्णं पात्रे विनिक्षिपेत् । ततश्चाग्निबलं दृष्ट्वा तस्य मात्रां प्रयोजयेत् ॥५॥
वातरक्तं तथा कुष्ठं गुदजानग्निसादनम् । दुष्टव्रणं प्रमेहं च आमवातभगन्दरान् ॥६॥
खाञ्ज्याढ्यवाञ् श्वयथून्सर्वान् वातान्व्यपोहति । अश्विभ्यां निर्मित: पूर्वममृताद्यश्च गुग्गुल: ॥७॥
इति गुग्गुल ॥
॥ अथ तैलानि ॥
अथ लगुमरिचाद्यं तैलम् । मरिचालशिलार्कपय:कलिनीविशमुष्टिविषामरनिम्बघनै: । कुटजं सचतुर्गुणगोऽम्बुशृतं किल तैलमसृक्पवनापहरम् ॥१॥
अथ बृहन्मरिचाद्यं तैलम् ॥ मरिचं त्रिवृत्ता दन्ती क्षीरमार्कं शकृद्रस: । देवदारु हरिद्रे द्वे मांसी कुष्ठं सचन्दनमऽ ॥१॥
विशाला करवीरं च हरितालं मन:शिला । चित्रकं लाड्गली चापि विड्ड्गं चक्रमर्दकम् ॥२॥
शिरीषं कुटजो निम्ब: सप्तपर्णामृता स्नुही । शम्याको नक्तमालश्च खदिर: पिप्पली वचा ॥३॥
ज्योतिष्मती च पलिका विषस्य द्विपलं मतम् । आढकं कटुतैलस्य गोमूत्रं च चतुर्गुणम् ॥४॥
मृत्पात्रे लोहपात्रे वा शनैर्मृद्वग्निना पचेत् । एतत्तैलं विशेषेण नाशयेत्कुष्ठजान्व्रणान् ॥ वातरक्तभवान्व्याधीन्पामाविस्फोटचर्चिकाम् ॥५॥
इति सारसंग्रहात् ॥ अथ पिण्डतैलं शार्ड्गधरात् ॥ मञ्जिष्ठासारिवासर्जयष्ठीसिक्थपयोन्वितै: । पिण्डाख्यं साधयेत्तैलमभ्यड्गाद्वातरक्तनुत् ॥१॥
अथ वृन्दात् सारिवादितैलम् ॥ सारिवासर्जययष्टयाह्वमधूच्छिष्टपयोन्वितै: । सिद्धमेरण्डजं तैलमभ्यड्गाद्वातरक्तनुत् ॥१॥
अथ पद्मकाष्ठादि तैलम् ॥ पद्मकोशीरयष्ठयाह्वं रजनीक्वाथसाधितम् । स्थात्पिष्टै: सर्जमञ्जिष्टावीराकाकोलिचन्दनै: ॥ पद्मकाद्यमिदं तैलं वातासृग्दाहनाशनम् ॥१॥ इति पद्मकाष्ठादि वृन्दात् ॥
अथ गुडूच्यादि ॥ गुडूचीक्वाथकल्काब्यां तैलं लाक्षारसेन वा । सिद्धं मधूककाश्मर्यरसे वा वातरक्तनुत् ॥१॥ इति वृन्दात् ॥
अथ वृन्दात् शताह्वादि ॥ शताह्वया च कुष्ठेन मधुकेन नवेन वा । एकैकं साधितं तैलं वातरक्तरुजापहम् ॥१॥
इति तैलानि ॥
॥ अथ घृतानि ॥
अथ शार्ड्गधरादमृताद्यं घृतम् ॥ अमृताक्वाथकल्काभ्यां सक्षीरं विपचेत् घृतम् । वातरक्तं जयत्याशु कुष्ठं जयति दुस्तरम् ॥१॥
अथ सारसड्ग्रहान्महातिक्तं घृतम् ॥ भूनिम्बाम्बुदनिम्बवत्सककणात्रायन्त्यनन्तामृतातिक्ताभीरुफलत्रिकप्रतिविषामूर्वाविषालाजलै: । पाठापर्पटसारिवाद्वयनिशायुगयष्टिकापद्मकै: सोशीरै: सपटोलचन्दनवचाशम्याकसप्तच्छदै: ॥१॥
इत्येभिर्गदितैर्जलाष्टगुणितै: प्रस्थं पचेत्सर्पिषो गव्यस्यामलकीरसद्विगुणितं नाम्ना हि तिक्तं घृतम् । हन्त्येतद् गलगण्डमण्डलरुजं कण्डूंसपाण्ड्वामयां शोफश्लीपदवातरक्तविकृती: कुष्ठानि चाष्टादश ॥२॥
इति घृतानि ॥
॥ अथ योगादि ॥
छिन्नोद्भवाकषायेण सेव्यं शुद्धं शिलाजतु । पञ्चकर्मविशुद्धेन वातरक्तप्रशान्तये ॥१॥
अथामृताद्यवलेहिका ॥ अमृता कटुका शुण्ठी यष्टीकल्कं समाक्षिकम् । गोमूत्रपीतं जयति सकफं वातशोणितम् ॥१॥
अथ गुडूचीयोग: ॥ गुडूच्या: स्वरसं कल्कं चूर्णं वा क्वाथमेव च । प्रभूतकालमासेव्यं मुच्यते वातशोणितात् ॥१॥
॥ अथ लेपनम् ॥
ग्रन्थान्तरात् । प्रपौण्डरीकमञ्जिष्ठादार्वीमधुकचन्दनै: । सितोपलैलासक्तश्च मसूरीशीरपद्मकै: ॥१॥
लेपो रुग्दाहवीसर्परागशोफनिवारण: । लेप: पिष्टास्तिलास्तद्वद्भॄष्टा: पयसि निर्वृता: ॥२॥
क्षीरपिष्टान्युपालेप्यान्येरण्डलस्य फलानि च । कुर्याच्छूलनिवृत्त्यर्थं शताह्वां बाधिकेऽनिले ॥३॥
मूत्रक्षीरसुरासिद्धं घृतमभ्यञ्जने हितम् । सिद्धं समधुसूक्तं तु सेकाभ्यड्गे कफोत्तरे ॥४॥
गृहधूमवचाकुष्ठशताह्वारजनीद्वयम् । प्रलेप: शूलनुद्वातरक्ते वातकफोत्तरे ॥ प्रभूतकालमासेव्य मुच्यते वातशोणितात् ॥५॥
अथ लेपनम् ॥ उभे शताह्वे मधुकं विशालां बलां प्रियालं च कसेरुयुग्मम् । घृतं विदारीं च सितोपलां च कुर्यात्प्रदेहं पवने सरक्ते ॥१॥
सहस्त्रशतधौतेन घृतेन रुधिरोत्तरे । लेपनं चोष्मशीतेन घृतसर्जरसेन वा ॥२॥
आरनालाढके तैलं पादसर्जरसं शृतम् । प्रस्थस्थे निर्जिते तोये ज्वरदाहार्तिनुत्परम् ॥३॥
समधूच्छिष्टमञ्जिष्ठा ससर्जरससारिवा । पिण्डतैलं तथाभ्यड्गाद्वातरक्तरुजापहम् ॥४॥
इति वातरक्ते ॥
॥ अथ पञ्चामृतरस: ॥
रसरत्नप्रदीपात् । पारदं च क्रियाशुद्धं तत्तुल्यं शुद्धगन्धकम् । अभ्रकं तु द्वयोस्तुल्यं त्रिभिस्तुल्यस्तु गुग्गुलु: ॥१॥
सर्वांशममृतासत्वं ॥२॥
सप्तवारं ततो युञ्ज्याद्वातरक्ते त्रिवल्लकम् । कोकिलाक्षस्य मूलानां पानीयमनुपाययेत् ॥ इति पञ्चामृतरस: ॥
॥ अथ पथ्यापथ्यम् ॥
यवषष्टिकनीवारकलमारुणशालय: । गोधूमाश्चणका मुद्गास्तुवर्योऽपि मकुष्ठका: ॥१॥
अव्यजामहिषीणां च गवामपि पयांसि च । उपोदिका काकमाची वेत्राग्रं सुनिषण्णकम् ॥२॥
वास्तुकं कारवेल्लं च तण्डुलीयं पटोलकम् । धात्रीफलं शृड्गबेरं सूरणं श्वेतशर्करा ॥३॥
मृद्विका वृद्धकूष्माण्डनवनीतं नवं घृतम् । लावतित्तिरवर्तीकताम्रचूडविविष्करा: ॥४॥
प्रतुदा: शुकदात्यूहकपोतचटकादय: । शशिनागरुदेवाह्वसरलस्नेहमर्दनम् ॥५॥
तिक्तं च पथ्यमुद्दिष्टं वातरक्तगदे नृणाम् । दिवास्वप्नाग्निसंतापव्यायामातपमैथुनम् ॥६॥
माषा: कुलत्था निष्पावा: कलाया: क्षारसेवनम् । अण्डजानूपमांसानि विरुद्धानि दधीनि च ॥७॥
इक्षवो मूलकं मद्यं ताम्बूलं काञ्जिकं तिलान् । कटूष्णं गुर्वभिष्यन्दि लवणानि च सक्तव: ॥ एतानि वातरक्तेषु नैव युञ्ज्याद्भिषग्वर: ॥८॥ इति वातरक्तचिकित्सा ॥
N/A
References : N/A
Last Updated : January 03, 2018
TOP