ज्वरादौ लड्घनं पथ्यं ज्वरमध्ये तु पाचनम् । ज्वरान्ते रेचनं प्रोक्तमेतज्ज्वरचिकित्सितम् ॥१॥
ज्वरे लड्घनमेवादावुपदिष्ट्मृते ज्वरात् । क्षयानिलभयक्रोधकामशोकश्रमोद्भवात् ॥२॥
आमाशयस्थो तत्वाग्रिं सामो मार्गान्पिधाय च । विदधाति ज्वरं दोषस्तस्मात्कुर्वीत लड्घनम् ॥३॥
अनवस्थितदो लड्घनं दोषपाचनम् । ज्वरघ्रं दीपनं काड्क्षारुचिलाघवकारणम् ॥४॥
प्राणाविरोधि ना चैनं लड्घयेन्नोपपादयेत् । बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रम: ॥५॥
न लड्घयेन्मारुतजे ज्वरे च क्षयोद्भवे व क्षुधिते च जन्तौ । न गुर्विणीदुर्बल्बालवृद्धान्भीतांस्तृषार्तानपि सोर्ध्वावातान् ॥६॥
दोषाणामेव सा शक्तिर्लड्घने या सहिष्णुता । न हि दोषक्षये कश्चित्सहते लड्घनं महत् ॥७॥
वातज: सप्तरात्रेण द्शरात्रेण पित्तज: । श्लेष्मजो द्वादशाहेन ज्वर: पाकं प्रपद्यते ॥८॥
वाते द्वे पित्तजे चैकं कफे दिनचतुष्टयम् । सप्ताहं वातपित्ते च कफपित्ते दश स्मृता: । कफवाते द्वादशाहं त्रिदोषे चैकविशंति: ॥९॥
आसप्तरात्रं तरुणं ज्वरमाहुर्मनीषिण: । मध्यं द्वादशरात्रं तु पुराणामत् उत्तरम् ॥१०॥
सप्ताहेन तु पच्यन्ते सप्तधातुगता मला: । निरामश्चाप्य त: मोक्तो ज्वर: मायोऽष्टमेऽहनि ॥११॥
सर्वज्वरेषु दातव्य: कषाय: सप्तमेऽहनि अथवा लड्घयेत्तावद्यावदारोग्यदर्शनम् ॥१२॥
न कषायं प्रशंसन्ति कदाचित्तरुणे ज्वरे । कषायेणाकुलीभूता दोषा जेतुं मुदुस्तरा: ॥१३॥
अत्र विदेह: । सर्वज्वरंषु सप्ताहे मात्रां च लघु भोजयेत् । वेगापायेऽन्यथा तद्धि ज्वरवेगे विवर्धयेत् ॥१॥
क्षुत्सम्भवति पक्केषु दोषधातुमलेषु च । काले वा यदि वाकाले सोऽन्नकाल्त उदाहृत: ॥२॥
अथ च वाग्भट: । ज्वरितं ज्वरमुक्तं वा दिनान्ते भोजयेल्लघु । श्लेष्मक्षये प्रवृद्धोष्मा बलवाननस्तदा ॥१॥
यथोचितेऽथवा काले देशसात्म्यानुरोधत: । प्रागल्यवन्हिर्भुञ्जानो न ह्यजीर्णेन पीड्यते ॥२॥
कषायपानपथ्यान्नैर्दशाह इति लड्घिते । उष्मा पित्तादृते नास्ति ज्वरो नास्त्युष्मणो विना ॥३॥
तस्मात्पित्तविरोधीनि त्यजेत्पित्ताधिकेऽधिकम् । स्नानाभ्यड्प्रदेहांश्च परिषेकांश्च वर्जयेत् ॥४॥
अजीर्णद्रवशूलाढ्ये सामे तीव्ररुजि ज्वरे । न पिबेदौषधं तद्धि भूय एवाममावहेत् ॥५॥
नवज्वरे मलस्त्म्भात् कषायो विषज्वरम् । कुरुतेऽरुचिहृल्लासहिध्माध्मानादिकानपि ॥६॥
सप्ताहादौषधं केचिदाहुरन्ये दशाहत: । केचिल्लघ्वन्नभुक्तस्य देयमामोल्बणे न तु ॥७॥
तीव्रज्वरपरीतस्य दोषवेगोदये यत: । दोषेऽथवातिनिचिते तन्द्रा स्तैमित्यकारिणी ॥८॥
अपच्यमानं भैषज्यं भूयो जनयति ज्वरम् । मृदुर्ज्वरो लघुर्देहश्चलितश्च मलो यदा । अचिरज्वरितस्यापि भेषजं योजयेत्तदा ॥९॥
अथ वृद्धवाग्भट: षड्दशद्वादशाहेषु व्यतीतेषु क्रमेण वै । वातपित्तकफातड्केष्वन्न काला इमे त्रय: ॥१॥
द्वन्द्वजे सन्निपाते च व्याधावारोग्यदर्शने । सति यवागूयूषादि कल्पयेदतिनैपुणात् ॥२॥
मुद्गान्मसूरांश्चणकान्कुलत्थान् मकुष्ठान् पाचनयूषहेतून् । हिताहितानां विहितांश्च पेयान् दद्याद्यवागूमपि पाचनै: स्वै: ॥३॥
अथ चक्रदत्तात् । नवज्वरे दिवा स्वापस्नानभोजनमैथुनम् । क्रोधप्रवातव्यायामषायांश्च विवर्जयेत् ॥१॥
निर्वातभवनावासमुष्णवारिनिषेवणम् । अभूरिजल्पं निष्क्रोधकामशोकं च रोगिणम् ॥२॥
कुर्यादारोग्यसंपन्नं शीघ्रं वैद्यो विचक्षण: । कफमेदोऽनिलामघ्नं दीपनं बस्तिशोधनम् ॥३॥
कासश्वासज्वरहरं पथ्यमुष्णोदकं सदा । यत्क्कात्यमानं निर्वेगं निष्फलेनं निर्मलं भवेत् ॥४॥
अर्धावशिष्टं भवति तदुष्णोदकमुच्यते । तत्पादहीनं वातघ्नमर्धहीनं तु पित्तनतु ॥५॥
त्रिपादहीनं श्लेष्मघ्नं पाचनं दीपनं लघु । द्वन्द्वजे सन्निपाते च ज्वरं पथ्यं तदार्तिजित् ॥६॥
शरदि स्वर्धपादोनं पादहीनं तु हैमते । शिशिरे च वसन्ते च ग्रीष्मे चार्धावशेषितम् ॥७॥
विपरीते ऋतो तद्वत् प्रावृष्यष्टावशेषितम् । मिनत्ति श्लेष्मसड्घातं मारुतं चापकर्षति ॥८॥
अजीर्णं जरयत्याशु पीतमुष्णोदकं निशि । धारापातेन विष्टम्भि दुर्जरं पवनाहतम् ॥९॥
शृतशीतं त्रिदोषघ्नं बाह्यान्तर्भावशीतलम् । दिवा शृतं तु यत्तोयं रात्रौ तद्गुरुतां व्रजेत् ॥१०॥
रात्रौ शृतं तु दिवसे गुरुत्वमधिगच्छति । तप्ताय:पिण्डसंसिक्तं लोष्ठनिर्वापितं जलम् ॥११॥
सर्वदोषहरं पथ्यं सदा नैरुज्यकारकम् । उष्णीकृतं जलं पथ्यं दोषतृट्कासजिल्लघु ॥१२॥
शृतशीतं जलं पथ्यं त्रिदोषशमनं लघु । नवज्वरे प्रतिश्याये पार्श्वशूले गलग्रहे ॥१३॥
सद्य: शुद्धो तथाध्माने व्याधौ वातकफोद्भवे । अरुचिग्रहणीगुल्मश्वासकासेषु विद्रधौ ॥१४॥
हिक्कायां स्नेहपाने च पिबेदुष्णं जलं नर: । अरोचके प्रतिश्याये प्रसेके श्वयथौ क्षये ॥१५॥
मन्द्राग्रावुदरे कुष्ठे ज्वरे नेत्रामये तथा । व्रणे च मधुमेहे च पानीयं मन्दमाचरेत् ॥१६॥
मूर्छा पित्तोष्णदाहेषु विषमे च मदात्यये । श्रमक्लमपरीतेषु मार्गोत्थे वमथौ तथा ॥ ऊर्ध्वगे रक्तपित्तं च शीतमम्भ: प्रशस्यते ॥१७॥
पानीयं पानीयं शरदि वसन्ते च पानीयम् । नादेयं नादेयं शरदि वसन्ते च नादेयम् ॥१८॥
उक्तं हि तन्त्रान्तरे । अमर्मोपहते देशे शिरासन्ध्यस्थिवर्जिते । वर्षावसन्तसमये कौपं वारिप्रशस्यते ॥ अम्भ: शरदि ताडागं नादेयमृतुषु त्रिषु ॥१॥
उत्तमस्य पलं मात्रा त्रिभिरक्षैश्च मध्यमा । जघनस्य पलार्धेन स्नेहक्काथौषधेषु च ॥२॥
कर्षश्चूर्णस्य कल्कस्य गुटिकानां च सर्वश: । द्रवशुक्त्यावलेढव्य: पातव्यश: चतुर्द्र्व: ॥३॥
मात्रा मधुघृतादीनां क्वाथे स्नेहेषु चूर्णवत् । द्विचत्वारिंशता माषैष्टादशकबद्धकै: ॥४॥
पलं द्वादशबद्धं स्याद्गुञ्जासमनिवतम् । क्वाथ्यद्रव्यपलं वारि द्विरष्ट्गुणमिष्यते ॥५॥
चतुर्भागावशेषं तु पेयं पलचतुष्टयम् । दीप्तानलं महाकायं पापयेदञ्जलिं जलम् ॥६॥
अन्ये त्वर्धं परित्यज्य प्रसृतं तु चिकित्सका: । क्वाथत्यागमनिच्छन्तस्त्वाष्टभागावशेषितम् ॥७॥
पारम्पर्योपदेशेन वृद्धवैद्या: पलद्वयम् । पाययन्त्यातुरं सामे पाचनं सप्तमेऽहनि ॥८॥
N/A
References : N/A
Last Updated : December 17, 2017
TOP