॥ अथ मत्स्यादिजलजन्तवः ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
मोरिका वातहृब्दल्या बृंहणी मधुरा गुरुः ।
पित्तहॄत्कफकृद्रुच्या वृष्या दीप्ता कृशे हिता ॥१॥
शिलीध्रः श्लेष्मलो बल्यो विपाके मधुरो गुरुः ।
वातपित्तहरो हृद्य आमवातकरश्च सः ॥२॥
वाम्बमत्स्यो हरेद्वातपित्तं रुचिकरो लघुः ।
शकुली ग्राहिणी हृद्या मधुरा तुवरा स्मृता ॥३॥
कविका मधुरा स्निग्धा कषाया रुचिकारिणी ।
किञ्चित्पित्तकरी वातनाशिनी बलवर्धिनी ॥४॥
गरघ्नी मधुरा तिक्ता तुवरा वातपित्तहृत् ।
कफघ्नी रुचिकृएद्वह्निदीपनी बलवीर्यकृत् ॥५॥
मद्गुरो वातहृदृष्यो बल्यः कफकरो लघुः ।
मत्स्यगर्भो भृशं वृष्यः स्निग्धः पुष्टिकरो गुरुः ॥६॥
दग्धमत्स्यो गुनैः श्रेष्ठः पुष्टिकृब्दलवर्धनः ।
महाशफरसंज्ञस्तु तिक्तः पित्तकफापहः ॥७॥
शिशिरो मधुरो रुच्यो वाते साधारणः स्मृतः ।
क्षुद्रमत्स्याःस्वादुरसा दोषत्रयविनाशनाः ॥८॥
लघुपाका रुचिकराः सर्वदा ते हिता मताः ।
अतिसूक्ष्माः पुंस्त्वहरा रुच्याः कासानिलापहाः ॥९॥
नादेया बृंहणा मत्स्या गुरवोऽनिलनाशनाः ।
कौप्या वृष्याः कफाष्ठीलामूत्रकृच्छ्रविबन्धदाः ॥१०॥
ताडागा गुरुवो वृष्याः शीतला बलमूत्रदाः ।
सरोजा मधुराः स्निग्धा बल्या वातनिबर्हणाः ॥११॥
सामुद्रा गुरवो नातिपित्तलाः पवनापहाः ।
तत्रापि लवणाभ्भोजा ग्राहिणो दृष्टिनाशनाः ॥१२॥
ह्रदोद्भवा बलकरास्ते तु स्वच्छजलोद्भवाः ।
हेमन्ते कूपजा मत्स्याः शिशिरे सारसा हिताः ॥१३॥
वसन्ते तु नदीजाता ग्रीष्मे चोढासमुद्भवाः ।
तडागजाता वर्षासु तेषु पथ्या नदीभवाः ॥१४॥
नैर्झराः शरदि श्रेष्ठा विशेशोऽयमुदाहृतः ॥
इति मत्स्यगुणाः ॥
N/A
References : N/A
Last Updated : December 10, 2017
TOP