॥ अथाग्निदग्धव्रननिदानमाह ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
॥ अथाग्निदग्धव्रननिदानमाह ॥
तत्र स्निग्धं रुक्षं वाशृत्य द्रव्यमग्निर्दहति । अग्निसन्तप्तो हि स्नेहं सूक्ष्ममार्गांनुसारित्वात् त्वगादीननुप्रविश्याशु दहति तस्मात्स्त्रेहदग्धेऽधिका रुजो भवन्ति । तत्र प्लुष्टं दुर्दग्धं सम्यग्दग्धमतिदग्धमिति चतुर्विधं भवत्यग्निदग्धम् । तत्र विवर्णमात्रं प्लुष्यते तत्प्लुष्टं यत्रोत्तिष्ठन्ति स्फोटास्तीव्रदाहवेदनाश्चिराच्चोपशाम्यन्ति तद्दुर्दग्धम् । सम्यगदग्धमवगाढं तालफलवर्णं सुस्थितं पूर्वलक्षणयुक्तं च । अतिदग्धं तु त्वग्मांसामूर्च्छाश्वासोपद्रवा भवन्ति । इति प्लुष्टादिभेदेनाग्निदग्धश्चतुर्विधो व्रणो भवति ॥
इत्यग्निदग्धनिदानम् । चन्द्रसेनात् ॥
॥ अथ तच्चिकित्सा ॥
प्लुष्टस्याग्निप्रतपनं कार्यमुष्णं तथौषधम् । शीतामुष्णां च दुर्दग्धे क्रियां कुर्यात्तत: पुन: ॥१॥
घृतालेपनसेकांस्तु शीतान्येवास्य कारयेत् । अतिदग्धे विशीर्णानि मांसान्युद्धृत्य शीतलाम् ॥२॥
क्रियां कुर्याच्चूर्णकाले शालितण्डुलकण्डनै: । तिन्दुक्यास्त्वक्वषायैर्वा घृतमिश्रै: प्रलेपयेत् ॥३॥
सम्यगदग्धे तुगाक्षीरीप्लक्षचन्दनगैरिकै: । सामृतै: सर्पिषा युक्तैरालेपं कारयेद्भिषक् ॥४॥
अथ पथ्यादिलेप: ॥ पथ्याकर्दमजीरकमधुसिक्थकसर्जमिश्रितं लेपात् । गव्यं घृतमपहरति च पावकजनितं व्रणं सद्य: ॥१॥
अन्तर्धूमकुठेरको दहनजं लेपान्निहन्ति व्रणम् अश्वत्थस्य विशुष्कवल्कलभवं चूर्णं तथा गुण्ठनात् । अभ्यड्गाद्विनिहन्ति तैलमाखिलं गण्डूपदै: साधितं पिष्ट्वाशाल्मलितूलकैर्जलगतां लेपात्तथा वालुकाम् ॥२॥ दग्धयवभस्मचूर्णं तिलतैलाक्तं प्रलेपनादचिरात् । हरति शिखिदाहदग्धं भूयोऽभ्यड्गाद् व्रणं चाशु ॥३॥
अथ मधूच्छिष्टाद्यं तैलम् ॥ मधूच्छिष्टं समधुकं लोध्रं सर्जरसं तथा । मूर्वाचन्दनमञ्जिष्ठा: पिष्ट्वा सर्पिर्विपाचयेत् ॥
सर्वेषामपि दग्धानां व्रणरोपनमुक्तंमम् ॥१॥
अथ पटोलीतैलम् ॥ सिद्धं कषायकल्काभ्यां पटोल्या: कटुतैलकम् । दग्धव्रणरुजास्त्रावदाहविस्फोटनाशनम् ॥१॥
अथ चन्दनाद्यं यमकम् ॥ चन्दनं वटशृड्गाश्च मञ्जिष्ठा मधुकं तथा । प्रपौण्डरीकं दूर्वा च पतड्गं धातकी तथा ॥१॥
एतैस्तैलं विपक्तव्य़ं गोक्षीरेण समायुतम् । अग्निदग्धव्रणे श्रेष्ठं तत्क्षणाद्रोपणं परम् ॥२॥
अथ लाड्गलीमूलमेव च ॥१॥
पिप्पली त्रिफला चैव निम्बपत्रं च कार्षिकम् । कपिलाया घृतं प्रस्थं पचेत्तद्दिगुणं पय: ॥२॥
पलद्वयं च सिक्थस्य सिद्धे पूते च दापयेत् । लाड्गलीकं घृतं नाम व्रणानां रोपणं परम् ॥३॥
अग्निदग्धे विसर्पे च कीटलूताव्रणेषु च । चिरोत्थेषु च दुष्टेषु नाडीमर्माश्रितेषु च ॥४॥
अग्निदग्धव्रणे देयं धातकीचूर्णमुत्तमम् । अतसीतैलसंमिश्रं वह्निदग्धव्रणापहम् ॥५॥
अन्तर्धूमविदग्धं त्रिफलाचूर्णं विमिश्रितं तैलै: । क्षौभै: शीघ्रं शमयत्यग्निव्रणमाशु लेपेन ॥६॥
पित्तविद्रधिवीसर्पशमनं लेपनादिकम् । अग्निदग्धव्रणे सम्यक् प्रयुञ्जीत विचक्षण: ॥७॥
सुधा पुरातनी दग्धो वारिणा परिपेषिता । लेपनं तैलदग्धस्य विस्फोटव्याधिनाशनम् ॥८॥
अक्षिस्थेषु च कर्तव्यमिदमाश्च्योतनं हितम् । शेलुत्वक्त्रिफलादार्वीक्वाथो रोचनया युत: ॥ स्नुह्यर्कक्षीरसिक्तेऽक्ष्णि गव्यं सर्पिर्निषेचयेत् ॥९॥
इति दग्धव्रणचिकित्सा ॥
N/A
References : N/A
Last Updated : March 17, 2018
TOP