॥ अथेक्षुगुणाः ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
इक्षुः स्वादुर्गुरुः शीतो वृष्यः स्निग्धो बलप्रदः ।
जीवनो वातपित्तघ्नः कुर्यान्मूत्रकफकिमीन् ॥१॥
स मूले मधुरोऽत्यर्थं मध्ये मधुर एव च ।
अग्ने ग्रन्थिषु विज्ञेयो लवणो रसतस्तथा ॥२॥
इति सामान्येक्षुः ॥
लोहितेक्षुर्गुरुः शीतो दाहपित्तास्रकृच्छ्रजित् ।
पौण्ड्रकः शीतलः स्निग्धो बृंहणः कफकृत्सरः ॥१॥
कृष्णेक्षुस्तद्रुणैर्ज्ञेयो विशेषाद्दाहनाशनः ।
वंशेक्षुरीषत्कफकृद् वृष्यः स्निग्धो विबन्धनुत् ॥२॥
कृत्वा पौण्ड्रकखण्डकान्सुरुचिरांश्चन्द्रांशुभिर्भाविता ।
न्प्रत्यूषेऽथ यथाबलं भजति यो युक्त्या ज्वरार्तश्चिरम् ।
मुक्तः स्यादचिरेण शीतकमुखाज्जीर्णज्वराद्यक्ष्मतः पित्तं याति शमं प्रयाति वपुषः पुष्टिं बलं पावकः ॥३॥
वृष्यो रक्तास्रपित्तश्रमशमनपरः शीतलः श्लेशःमदोऽल्पः स्निग्धो हृद्यश्च रुच्यो रचयति स मुदं मूत्रशुद्धिं विधत्ते ।
कान्तिं देहस्य धत्ते बलमपि कुरुते बृंहणस्तृप्तिदायी दन्तैर्निष्पीड्य काण्डे मृदु यदि रसितो भक्षितश्चेक्षुदण्डः ॥४॥
अभुक्ते पित्तहन्तारो भुक्ते पित्तप्रकोपणाः ।
भुक्तिमध्ये गुरुतमा इतीक्षूणां गुणास्त्रयः ॥५॥
N/A
References : N/A
Last Updated : December 13, 2017
TOP