संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ नवनीतम्‌ ॥

॥ अथ नवनीतम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


नवनीतं हिमं गव्यं वृष्यं वर्णबलाग्निकृत्‌ ।
संग्राहि वातपित्तार्शःक्षयेष्वर्दितकासजित्‌ ॥१॥
तद्धितं बालके वृद्धे विशेषादमृतं शिशोः ।
माहिषं नवनीतं तु वातश्लेष्मकरं गुरु ॥२॥
दाहपित्तश्रमहरं मेदःशुक्रविवर्धनम्‌ ।
आर्ज त्रिदोषशमनं नवनीतं तयोर्वरम्‌ ॥३॥
क्षीरोत्थं तदतिस्निग्धं चक्षुष्यं रक्तपित्तनुत्‌ ।
वृष्यं बलकरं ग्राहि मधुरं शीतलं परम्‌ ॥४॥
नवनीतं तु सद्यस्कं स्वादु ग्राहि हिमं लघु ।
मेध्यं किञ्चित्कषायाम्लमीषत्तक्रांशसंक्रमात्‌ ॥५॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP