॥ अथासवारिष्टः ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
द्रवेषु चिरकालस्थं द्रव्यं यत्संधितं भवेत् ।
आसवारिष्टभेदैस्तत्प्रोच्यते भेषजोवितम् ॥१॥
यदपक्कौषधाम्बुभ्यां सिद्धं मद्यं स आसवः ।
अरिष्टः क्काथसिद्धः स्यात्तयोर्मानं पलोन्मितम् ॥२॥
अनुक्तमानारिष्टेषु द्रवद्रोणे गुडात्तुलाम् ।
क्षौद्रं क्षिपेद्गुडादर्ध प्रक्षेपं दशमाषकम् ॥३॥
ज्ञेयः शीतरसः शीधुरपक्कामधुरद्रवैः ।
सिद्धपक्करसः सीधुः संपक्कमधुरद्रवैः ॥४॥
परिपक्कान्नसन्धानसमुत्पन्नां सुरां जगुः ।
सुरामण्डः प्रसन्ना स्यात्ततः कादम्बरी घना ॥५॥
तदधो जगलो ज्ञेयो मेदको जङ्गलो घनः ।
पक्कं संहृतसारं स्यात्सुराबीजं च किण्वकम् ॥६॥
यत्तालखर्जूररसैः साधितं स्याद्धि वारुणी ।
कन्दमूलफलादीनि सस्नेहलवणानि च ॥७॥
यत्र द्रवेऽभिधीयन्ते तत्सुक्तमभिधीयते ।
विनष्टमम्लतां यातं मद्यं वा मधुरद्रवः ॥८॥
विनष्टः साधितो यस्तु तत्सुक्तमभिधीयते ।
गुडाम्बुना सतैलेन कन्दशाकफलैस्तथा ॥९॥
साधितं चाम्लतां यातं गुडसुक्तं प्रचक्षते ।
एवमेवेक्षुसुक्तं स्यान्मृद्वीकासम्भवं तथा ॥१०॥
तुषाम्बुसंधितैर्ज्ञेयं माषैर्विदलितैर्यवैः ।
यवैः सुनिस्तुषैः पक्कैः सौवीरं सन्धितं भवेत् ॥११॥
तुषाम्बुधान्यमण्डादिसंधितं काञ्जिकं विदुः ।
सण्डाकी सन्धिता ज्ञेया मूलकैः सर्षपादिभिः ॥१२॥
N/A
References : N/A
Last Updated : December 13, 2017
TOP