॥ अथ हिड्ग्वादिचूर्णम् ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
॥ अथ हिड्ग्वादिचूर्णम् ॥
हिड्ग्वाम्लत्रिपटूग्रषट्कटुशटीवृक्षाम्लदीप्याल्लकापाठाजाज्यजन्धमूलहपुषाद्विक्षारसाराभया । हिध्माध्मानविबन्धवर्ध्मकसनश्वासाग्रिसादारुचिप्लीहार्शोऽखिलशूलगुल्मगलहृद्रोगाश्मपाण्डुप्रणुत् ॥१॥
इति बोपदेवशतात् ॥ अथ योगशतात् हिड्ग्वादिचूर्णम् । हिड्गुग्रगन्धाबिडशुण्ठ्यजाजीहरीतकीचित्रकमूलकुष्ठम् । भागोत्तरं चूर्णितमेतदिष्टं गुल्मोदराष्ठीलविषूचिकासु ॥१॥ अथ नादेयादि ॥
नादेयीकुटजार्कशिग्रुबृहतीस्नुगबिल्वभल्लातकव्याघ्रीकिंशुकपारिभद्रकरजोऽपामार्गनीपाग्निकान् । वासामुस्तकपाटलान्सलवणान्दग्ध्वा रसं पाचितं हिड्गवादि प्रतिवापमेतदुचितं गुल्मोदराष्ठीलिषु ॥१॥
अथ गदनिग्रहाद्विडड्गासव: ॥ विड्ड्गं पिप्पलीमूलं पाठाधात्र्येलवालुकम् । कुटजत्वक्पलं रास्त्रा भार्गी पञ्चपलोन्मितान् ॥१॥
अष्टद्रोणेऽम्भस: पक्त्वाद्रोणशेषं तु कारयेत् । पूते शीते क्षिपेत्तस्मिन्माक्षिकस्य शतत्रयम् ॥२॥
धातक्या विंशतिपलं चूर्णं कृत्वा तु दापयेत् । व्योषस्य तु पलान्यष्टौ त्रिजातं द्विपलं तथा ॥३॥
फलिनी हेमतोयानां सरोध्राणां पलं पलम् । घृतभाण्डे समाधाय मासमेकं विधारयेत् ॥४॥
एष योगो हरत्येव प्रत्यष्ठीलाभगन्दरान् । ऊरुस्तम्भाश्मरीमेहगण्डमालां सविद्रधिम् ॥ आढ्यवातं हनुस्तम्भं विडड्गाख्यो महासव: ॥५॥ इति विडड्गासव: ॥ अथ विश्वाच्याम् ॥
दशमूलीबलामाषक्वाथं तैलाज्यमिश्रितम् । सायं भुक्त्वा चरेन्नस्यं विश्चाच्यां चावबाहुके ॥१॥ इति दशमूलादिक्वाथ: ॥
अथ मिम्मिण्या: ॥ दशमूलस्य निर्यूहो हिड्गुपुष्करचूर्णित: । शमयेत्परिपीतस्तु वातं मिम्मिणसंज्ञितम् ॥१॥
अथ कुब्जे ॥ हृदयं यदि वा पृष्ठमुन्नतं क्रमश: सरुक् । क्रुद्धो वायुर्यदा कुर्यात्तदा तं कुब्जमादिशेत् ॥१॥
वातघ्नैर्दशमूल्या च नवं कुब्जमुपाचरेत् । स्नेहैर्मांसरसैश्चापि प्रवृद्धं तं विवर्जयेत् ॥२॥
अथ तूनीप्रतितून्यो: ॥ पिप्पल्यादिरजस्तूनीप्रतितून्यो: सुखाम्बुना । पिबेद्वा स्नेहलवणं सघृतं क्षारहिड्गु वा ॥१॥
अथाध्माने ॥ आध्माने लेपनं पाणितापश्च फलवर्तय: । दारुहैमवतीकुष्ठशताह्वाहिड्गुसैन्धवै: ॥१॥
अम्लविष्टै: सुखोष्णैश्च प्रदिह्यादुदरे भिषक् । दीपनं पाचनं चैवाध्मानबस्तिविशोधनम् ॥२॥ इति दारुषट्कम् ॥
N/A
References : N/A
Last Updated : December 20, 2017
TOP