॥ अथ स्वल्पायुषो लक्षणानि ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
अथ कालस्य विज्ञानं प्रवक्ष्यामि यथाश्रुतम् ।
जीवितं मरणं योगी यन्न जानाति निश्चितम् ॥१॥
कालग्रहस्य यस्येदं दंष्ट्रायाः संयुगे जगत् ।
अद्यैव वा प्रभाते वासोऽवश्यंभक्षयिष्यति ॥२॥
रसं रसायनं योग्यं कालं ज्ञात्वा समाचरेत् ।
तस्याज्ञाने वृथा सर्वं तस्मात्तत्प्रोच्यते मया ॥३॥
शरीरशीलयोर्यस्य प्रकृते र्विकृतिर्भवेत् ।
तदरिष्टं समासेन व्यासतश्च निबोध मे ॥४॥
शृणोति विविधान् शब्दान् विपरीतं शृणोति वा ।
न शृणोति च योऽकस्मात्तं वदन्ति गतायुषम् ॥५॥
यत्तूष्णमिव गृह्णाति शीतमुष्णं च शीतवत् ।
उष्णगात्रोऽतिमात्रं यो भृशं शीतेन कम्पते ॥६॥
प्रहारं नैव जानति यो गच्छेदन्यथापि वा ।
पांशुनेवावकीर्णानि यश्च गात्राणि मन्यते ॥७॥
वर्णोऽन्यथा वा राज्यो वा यस्य गात्रे भवन्ति हि ।
स्नातानुलिप्तं यं चापि भजन्ते नीलमक्षिकाः ॥८॥
विपरीतेन गृह्णाति रसान् यश्चोपयोजितान् ।
यो वा रसान्न संवेत्ति तं गतासुं प्रचक्षते ॥९॥
सुगन्धं वेत्ति दुर्गन्धं दुर्गन्धं च सुगन्धवत् ।
गृह्णाति योऽन्यथा गन्धं शान्ते दीपे निरामयः ॥१०॥
रात्रौ सूर्यं ज्वलन्तं वा दिवा वा चन्द्रवर्चसम् ।
दिवा ज्योतींषि यश्चापि ज्वलितानीव पश्यति ॥११॥
विद्युत्वतः सितान्मेघान् गगने निर्घने घनान् ।
विमानयानप्रासादैर्यश्च सङ्गुलमम्बरम् ॥१२॥
यश्चानिलं मूर्तिमन्तमन्तरिक्षेऽवलोकते ।
धूमनीहारवासोभिरावृतां यश्च मेदिनीम् ॥१३॥
प्रदीप्तमिव यो लोकं यो वा प्लुतमिवाम्भसा ।
भूमिमष्ठापदाकारां लेखाभिर्यश्च पश्यति ॥१४॥
न पश्यति ऋक्षाणि यश्च देवीमरुन्धतीम् ।
ध्रुवमाकाशगङ्गां च तं वदन्ति गतायुषम् ॥१५॥
आदर्शेऽम्बुनि घर्मे वा छायां यश्च न पश्यति ।
पश्यत्येकाङ्गहीनां वा विकृतां वान्यसत्वजाम् ॥१६॥
ह्रीभियौ नश्यतो यस्य तेजओजःस्मृतिप्रभाः ।
अकस्माद्यं भजन्ते वा सपरासुरसंशयम् ॥१७॥
यस्याधरोष्ठः पतितः क्षिप्तश्चोर्ध्वं तथोत्तरः ।
उभौ वा जाम्बवाभासौ दुर्लभं तस्य जीवितम् ॥१८॥
आरक्ता दशना यस्य श्यावा वा स्युः पतन्ति वा ।
त्स्वञ्जनप्रतिमा वापि तं गतायुषमादिशेट् ॥१९॥
कृश्णा तथानुलिप्ता च जिह्वा शूना च यस्य वै ।
कर्कशा वा भवेद्यस्य सोऽचिराद्विजहात्यसून् ॥२०॥
कुटिला स्फुटिता चापि शुष्का वा यस्य नासिका ।
अवस्फूर्जति भग्ना वा सन जीवति मानवः ॥२१॥
[ अवस्फूर्जति स्वासवेगेनोच्चैः शब्दं करोति ] ।
संक्षिप्ते विषमे स्तब्धे रूक्षे स्रस्ते च ओचने ।
स्यातां च प्रस्रुते यस्त स गतायुर्नरो ध्रुवम् ॥२२॥
केशाः सीमन्तिनो यस्य संक्षिप्ते विनते भ्रुवौ ।
लुलन्ति वाक्षिपक्ष्माणि सोऽचिराद्याति मृत्यवे ॥२३॥
नाहरत्यन्नमास्यस्थं न धारयति यः शिरः ।
एकग्रदृर्मूढात्मा सद्यः प्राणान्स मुञ्चति ॥२४॥
उत्थाप्यमानोबहुशः संमोहं योऽधिगच्छति ।
बलवान् दुर्बलो वापि तं पक्कं भिषगादिशेत् ॥२५॥
निद्रा निरन्तरं यस्य यो जागर्ति च सर्वदा ।
मुह्येद्वा वक्तुकामश्च प्रत्याख्येयः सजानता ॥२६॥
उत्तरोश्ठं च यो लिह्यात्फूत्कारांश्च करोति यः ।
प्रेतैर्वा भाषते सोऽयं प्रेतरूपं तमादिशेत् ॥२७॥
स्वेभ्यः सरोमकूपेभ्यो यस्य रक्तं प्रवर्त्तते ।
पुरुषस्याविषार्तस्व्य स सद्यो जीवितं त्यजेत् ॥२८॥
सम्यक् चिकित्स्यमानस्य विकारो योऽभिवर्धते ।
प्रक्षीणबलमांसस्य लक्षणं तद्गतायुषः ॥२९॥
भूताः प्रेताः पिशाचाश्च रक्षांसि विविधानि च ।
मरणाभिमुखं जन्तुमुपसर्पन्ति नित्यशः ॥३०॥
तानि भेषजवीर्याणि प्रतिघ्नन्ति जिघांसया ।
तस्मान्मोघाः क्रियाः सर्वा भवन्त्येव गतायुषाम् ॥३१॥
जलजा नवलक्षास्तु दशलक्षास्तु पक्षिणः ।
रुद्रलक्षास्तु कृम्याद्या स्थावराणां च विंशतिः ॥३२॥
त्रिंशल्लक्षं गवादीनां चतुर्लक्षास्तु मानवाः ।
शतायुः पुरुषश्चैव वृक्षाणां तु सहस्रकम् ॥३३॥
द्वात्रिंशच्च तुरङ्गाणां शतं कुञ्जरसिंहयोः ।
व्याघ्राणां च चतुःषष्टिः सहस्रं फणिकाकयोः ॥३४॥
जम्बुकानां षोडशाब्दं शुनां द्वादशवत्सरम् ।
चतुर्विंशतिरुक्तं गोमहिष्योः सूकरस्य च ॥३५॥
अजानां द्वादश प्रोक्तं मत्स्यानामयुतं तथा ।
कुक्कुटा नव वर्षाणि मृगाणां विंशतिर्भवेत् ॥३६॥
पक्षिणां दश वर्षाणी स्वराणाम द्वादशद्वयम् ।
चतुर्विंशतिरुष्ट्राणां रासभानां तथैव च ॥३७॥
इत्यायुर्विचारः ॥
N/A
References : N/A
Last Updated : December 12, 2017
TOP