संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ पुटपाककल्पना ॥

॥ अथ पुटपाककल्पना ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


पुटपाकस्य मात्रेयं लेपस्याङ्गारवर्णता ।
लेपं च व्द्यङ्गुलं स्थूलं कुर्याद्वाङ्गुष्ठमात्रकम ॥१॥
काश्मरीवटजम्ब्वादिपत्रैर्वेष्टनमुत्तमम्‌ ।
पलमात्रो रसो ग्राह्यः कर्षमात्रं मधु क्षिपेत्‌ ।
कल्कचूर्णद्रवाद्यास्तु देयाः स्वरसवहुधैः ॥२॥
स यथा ।
तत्कालाकृष्टकुटजत्वचं तण्डुलवारिणा ।
पिष्टां चतुष्पलमितां जम्बूपल्लववेष्टिताम्‌ ॥३॥
सूत्रबद्धां च गोधूमपिष्टेन परिवेष्टिताम्‌ ।
लिप्तां च घनपङ्केन गोमये वह्निना दहेत्‌ ॥४॥
अङ्गारवर्णां च मृदं दृष्ट्वा वह्नेः समुद्धरेत्‌ ।
ततो रसं गृहीत्वा च शीतं क्षौद्रयुतं पिबेत्‌ ।
जयेत्सर्वानतीसारान्दुस्तरान्सुचिरोत्थिताम्‌ ॥५॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP