संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ अष्टकम् ॥

॥ अथ अष्टकम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ कपित्थाष्टकम्‍ ॥
यवानीपिप्पलीमूलचातुर्जातकनागरै: । मरीचाग्निजलाजाजीधान्यसौवर्चलै: समै: ॥१॥
वृक्षाम्लधातकीकृष्णाबिल्वदाडिमदीप्यकै: । त्रिगुणै: षड्गुणसितै: कपित्थाष्टगुणीकृतै: ॥२॥
चूर्णोऽतीसारग्रहणीक्षयगुल्मगलायमान्‍ । कासश्वासारुचिं हिक्कां कपित्थाष्टमिदं जयेत्‍ ॥३॥
इति कपित्थाष्टकम्‍ ॥

॥ अथ दाडिमाष्टकम्‍ ॥
कर्षेन्मिता तुगाक्षीरी चातुर्जातं तु कार्षिकम्‍ । यवानीधान्यकाजाजीग्रन्थिव्योषं पलांशकम्‍ ॥१॥
पलानि दाडिमस्याष्टौ सितायाश्चैकत: । कृतम्‍ । गुणै: कपित्थाष्टकवच्चूर्णोऽयं दाडिमाष्टक: ।:॥२॥
इति दाडिमाष्टकम्‍ ॥

॥ अथ दाडिमपुटपाकौ ॥
पुटपाकेन विपचेत्‍ कुपक्कं दाडिमीफलम्‍ । तद्रसो मधुसंयुक्त: सर्वातीसारनाशन: ॥१॥
जातीफलं सर्पफेनं टड्कं गन्धकजीरके । एतानि समभागानि बालदाडिमबीजकै: ॥२॥
पेषयेत्तेन कल्केन पूरयेद्दाडिमीफलम्‍ । अड्गारे तच्च गोधूमचूर्णेनालेपयेद्‍दृढम्‍ ॥ अतीसारे स्तम्भनं स्यात्परं दीपनपाचनम्‍ ॥३॥
इति दाडिमपुटपाकौ । भल्लातानां द्विखण्डानां द्वे पले भर्जिते क्षिपेत्‍ । शुण्ठ्या: पल तु चेतक्या: पलार्धं सुमनाफलम्‍ ॥१॥
कर्शमेथीवेल्लजीरसर्षपान्‍ कोलमात्रत: । ततो यवान्यर्धपलं पिप्पलीरामठोषणम्‍ ॥२॥
बिडसैन्धवजीरं च किर्माणीसंज्ञकं तथा । कर्षप्रमाणं विज्ञेयं वैद्यविद्याविशारदै: ॥३॥
सर्वमेकत्र संचूर्ण्य यथासात्म्यं तु भक्षयेत्‍ । दग्धा सह तथा खादेत्‍ सर्वातीसारनाशनम्‍ ॥४॥
इति भल्लादिचूर्णम्‍ ।

N/A

References : N/A
Last Updated : December 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP