॥ अथाष्टाड्गावलेहिका ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
॥ अथाष्टाड्गावलेहिका ॥
(अवलेह: ) कट्फलं पौष्करं शृड्गी कृष्णा च मधुना सह । श्वासकासज्वरहर: श्रेष्ठो लेह: कफान्तक: ॥१॥
कट्फलं पौष्करं शृड्गी व्योषं यासश्च कारवी । श्लष्णं चूर्णीकृतं चैतन्मधुना सह लेहयेत् ॥२॥
एषावलेहिका हन्ति संनिपातं मुदारूणम् । हिक्कां श्वासं च कासं च कण्ठरोधं च घुर्घुरम् ॥ एतद्योज्यं कफोद्रेके चूर्णमार्द्रकजै रसै: ॥३॥ इत्याष्टाड्गावलेहिका । इत्यवलेह: ॥
॥ अथाञ्जननस्यम् ॥
शिरीषबीजगोमूत्रक्रुष्णामरिचसैन्धवै: । अञ्जनं स्यात्प्रबोधाय सरसोनशिलावचै: ॥१॥
कस्तूरी मरिचं वाजिलाला च मधुनाञ्जनम् । तन्द्रां निवारयत्याशु व्योषप्रधमनं तथा ॥२॥
इत्यञ्जननस्यम् ॥
॥ अथाञ्जनोद्धूलने ॥
तुरड्गलालासहिता मन:शिला निहन्ति तन्द्रां सकृदञ्जनेन । बब्बूलपत्राणि हरीतकी च संस्वेदिता स्वेदविकारहन्त्री ॥१॥
भूनिम्बकटुकाकुष्ठं कारवीन्द्रयव: सटी । एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ॥२॥
प्रस्वेदे कण्ठरोधे च सन्धिमर्दनमिष्यते । एतदुद्धुलनं श्रेष्ठं सन्निपातहरं परम् ॥३॥
स्वेदोद्गमे भृष्टकुलत्थचूर्णैरुद्भूलनं शस्तमिति ब्रुवन्ति । जीर्णं सकृद्रोर्लवणस्य भाण्डं स्वेदापहं गुण्डनमुत्तमंहि ॥४॥
अथ वृद्धावाग्भट: । यवानिका वचा शुण्ठी पिप्पली कारवी तथा । एतैरुद्भलनं शस्तं त्रिदोषोत्थे ज्वरे नॄणाम् ॥५॥
किरातं कटुका पथ्या कणा कायफलं वचा । उद्भूलनं त्रिदोषे च सदा शैत्ये च शस्यते ॥६॥
विषभागो भवेदेको मरीचात्त्रिगुणो मत: । आरण्योपलजं भस्म षोडशांसमन्वितम् ॥७॥
एकत्र मिलितं चूर्णं धूर्तस्वरसभावितम् । आतपे शोषितं तच्च शीतं स्वेदहरं परम् ॥८॥
अथवा चणका भृष्टा यवानीचूर्णामिश्रिता: । वचोषणरजोयुक्ता: स्वेदसंशोषणा मता: ॥९॥
॥ अथ सन्निपाते जिह्वायां लेप: ॥
उच्छुष्कां स्फुटितां जिह्वां द्राक्षयां मधुपिष्टया । प्रलेपयेत्सघृतया संनिपातात्मकेज्वरे ॥१॥
सुवर्णमुक्तारजतप्रवालै: कस्तूरिकाकुड्कुमरोचनं च । वरालरुद्राक्षमधूकबिल्वं कुष्ठं च खर्जूरपुरर्नवा च ॥२॥
द्राक्षा कणा नागरपुत्रजीवी सारड्गशृड्गं कतकस्य बीजम् । एरण्डमूलं शरशीर्शकं च मयूरिका श्वेतपुनर्नवा च ॥
स्तन्येन पिष्ट्वा कुरु सन्निपाते लेपं सदा सर्वगदं निहन्ति ॥३॥
यवकोलकुलित्थानां मुद्गमूलकविश्वयो: । एकैकं मुष्टिमादाय पचेदष्टगुणे जले ॥४॥
पञ्चमुष्टिक इत्येष वातपित्तकफापह: । शस्यते गुल्मशूले च श्वासे कासे क्षये ज्वरे ॥५॥ इति पञ्चमुष्टिक: ॥
॥ अथ सप्तमुष्टिकयूष: ॥
कुलित्थयवकोलैश्च मौद्रैर्मूलकशुष्ककै: । शुण्ठीधान्यकयुक्तैश्च यूष: श्लेष्मानिलापह: ॥ सप्तमुष्टिक इत्येष संनिपातज्वराञ्जयेत् ॥१॥
॥ अथ सिद्धार्थादिप्रलेपक: ॥
सिद्धार्थको वचा हिड्गु करञ्ज: सुरदारु च । मञ्जिष्ठा त्रिफला श्वेता कटभीत्वक् कटुत्रयम् ॥२॥
प्रियड्गुश्च शिरीषं च निशा दार्वी समांशत: । अजामूत्रेण संपिष्टो गोमूत्रैर्वाथ चूर्णित: ॥ सर्वज्वरं निहन्त्याशु सिद्धार्थादिप्रलेपक: ॥३॥
इति सिद्धार्थादिप्रलेपक: ॥
॥ अथ क्वाथ: ॥
भार्ड्गीभूनिम्बनिम्बैर्घनकटुकवचाव्योषवासाविशालारास्त्नानन्तापटोलीसुरतरुरजनीपाटलाटिण्टुकैश्च । ब्राम्हीदार्वीगुडूचीत्रिवृदतिविषिकापुष्करत्रायमाणैर्व्याघ्रीसिंहीकलिड्गैस्त्रिफलसटियुतै: कल्पितस्तुल्यभागै: ॥१॥
क्वाथो द्वात्रिंशदाख्यस्त्र्यधिकदशमहासन्निपातान्निहन्याच्छूलं कासादिहिक्वाकसनगुदरुजो ध्मानविध्वंसकारी । ऊरुस्तम्भास्त्रवृद्धिं गलगदमरुचिं सर्वसन्धिग्रहार्ति मातड्गं यो निहन्यान्मृगरिपुरिव चेद्रोगजालं तथैव ॥२॥
भूनिम्बदारुदशमूलमहौषधाब्दतिक्तेन्द्रबीजधनिकेभकणाकषाय: । तन्द्राप्रलापकसनारुचिदाहमोह्श्वासादियुक्तमखिलज्वरमाशु हन्यात् ॥३॥
इत्यष्टादशाड्ग: । क्षुद्रापौष्करभूनिम्बगुडूचीविश्वभेषजै: । पञ्चतिक्तकनामायं क्वाथो हन्त्यष्टधा ज्वरम् ॥४॥
अथ च । दार्व्यम्बुदस्तिक्तफलत्रिकं च क्षुद्रा पटोली रजनी च निम्ब: । क्वाथं विदध्याज्जवरसंनिपाते निश्चेतने पुंसि निवोधनार्थम् ॥५॥
ग्रन्थीन्द्रजामरतरुक्रिमिशत्रुभार्गीभृड्गत्रिकट्वनलकट्फलपौष्कराणाम । रास्त्राभयाबृहतिकाद्वयदीप्यभूतकेशीकिरातकवचाचविकावृकीणाम् ॥६॥
क्वाथो हन्यात्संनिपातान्समग्रान्बुद्धिभ्रंशस्वेददशैत्यप्रलापान् । शूलाध्मानं विद्गधिं श्लेष्मवातान्वातव्याधीन्सूतिकानां च तद्वत् ॥७॥
अर्कानन्ताकिरातामरतरुरसनासिन्धुवारोग्रगन्धातर्कारीशिग्रुपञ्चोषणघुणदयितामार्कवाणां कषाय: । सद्यस्तीव्रांस्त्रिदोषानपहरति धनुर्मारुतं दन्तबन्धं शैत्यं गात्रेषु गाढं श्वसनकसनकं सूतिकावातरोगान् ॥८॥
अथ च । अर्कग्रन्थिकशिग्रुदारुचविकानिर्गुण्डिकापिप्पलीरास्नाभड्गपुनर्नवानलवचाभूनिम्बशुण्ठीकृत: । क्वाथ: संहरति त्रिदोषमखिलं सूतिकानानामारुतशैत्यशान्तिकृदपस्मारस्मरत्र्यम्बक: ॥९॥
बिल्वोऽग्निमन्थ: स्योनाक: काश्मरी पाटला स्थिरा । त्रिकण्ठक: पृश्रिपर्णी बृहती कण्टकारिका ॥१०॥
दशमूलमिदं श्वाससनिपातज्वरापहम् । दशमूली शटी शृड्गी पौष्करं सदुरालभम् ॥११॥
शुण्ठी कुटकबीजं च पटोलं कटुरोहिणी । अष्टादशाड्ग इत्येष सन्निपातज्वरापह: ॥ श्वासहृद्ग्रहपार्श्वातिंश्वासहिक्कावमीहर: ॥१२॥
इति दशमूल्याद्यष्टादशाड्ग: । लशुनं तिक्तकं काण्डं भार्गीचातिविषा तथा । नरमूत्रेण च क्वाथ: संनिपाते मुदारुणे ॥१३॥
इति लशुनादि: ।
N/A
References : N/A
Last Updated : December 17, 2017
TOP