॥ अथाक्षेपकादिरोगलक्षणान्याह ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
॥ अथाक्षेपकादिरोगलक्षणान्याह ॥
यदा तु धमनी: सर्वा: कुपितोऽभ्येति मारुत:। तदा क्षिपत्याशुमुहुर्मुहुर्देहं बहिश्चर:। मुहुर्मुहुस्तदाक्षेपादाक्षेपक इति स्मृत: ॥१॥
क्रुध्द: स्वै:कोपनैर्वायु: स्थानादूर्ध्वं प्रपद्यते। पीडयन्त्दृदयं गत्वा शिर: शखौ च पीडयेत् ॥२॥
धनुर्वन्नामयेद् गात्राण्याक्षिपेन्मोहयेत्तत: । अथास्यैवावस्थाविशेषावपतन्त्रकापतानकावाह ।स कृच्छ्रादुच्छृसित्युच्चै: स्तब्धाक्षोऽथ निमीलक:। कपोत इव कूजेच्च विसंज्ञ:सोऽपतन्त्रक: ॥१॥
दृष्टिं संस्तभ्य संज्ञां च हत्वा कण्ठेन कूजति । त्दृदि मुक्ते नर: स्वास्थ्यं याति मोहं वृते पुन: ॥२॥
मर्माश्रितं व्रणं प्राप्य वायुवत्सर्वदेहग: । तेन गौरो भवेद्देह: प्राणघ्रमपि ते त्यजेत् ॥ वायुना दारुणं प्राहुरेके तमपतानकम् ॥३॥
अथ तेषां लक्षणमाह । तत्र द्ण्डापतानकमाह । कफान्वितो भृशं वायुस्तास्वेव यदि तिष्ठति । दण्डवत् स्तम्भयेद्देहं स तु दण्डापतानक: ॥१॥
धनुस्तुल्यं नमेद्यस्तु स धनुस्तम्भसंज्ञक: । विवर्णबध्दवदन: स्रस्ताडो नष्ठचेतन: ॥ प्रस्विद्यंश्च धनुस्तम्भी दशरात्रं न जीवति ॥२॥
अथाभ्यन्तरायामस्य साधारण रुपमाह ॥ अडुलीगुल्फजठर त्दृव्दक्षोगलसंश्रित: । स्नायुप्रतानमनिलो यदा क्षिपति वेगवान् ॥१॥
विष्टब्धाक्ष: स्तब्धहनुर्भग्रपार्श्व:कफं वमन् । अभ्यन्तरं धनुरिव यदा नमति मानव: ॥ तदा सोऽभ्यन्तरायामं कुरुते मारुतो बली ॥२॥
अथ बहिरायामलक्षणम् ॥ बाह्यस्रायुप्रतानस्थो बाह्यायामं करोति च । तमसाध्यं बुधा: प्राहुर्वक्ष: कटयूरुभज्जनम् ॥१॥
अथ निमित्तभेदेन चतुर्थाक्षेपमाह ॥ कफपित्तान्वितो वायुर्वायुरेव च केवल: । कुर्यादाक्षेपकं त्वन्यं चतुर्थमभिघातजम् ॥१॥
अथासाध्यमाह । गर्भपातनिमित्तश्च शोणितातिस्त्रवाच्च य: । अभिघातनिमित्तश्च न सिध्यत्यपतानक: ॥१॥
अथ पक्षवधमाह ॥
गृहीत्वार्धं तनोर्वायु: शिर: स्नायून्विशोष्य च । पक्षमन्यतरं हन्ति सन्धिबन्धान् विमोक्षयन् ॥१॥
कृस्त्रोऽर्धकायस्तस्य स्यादकर्मण्यो विचेतन: । एकाड्गरोगं तं केचिदन्ये पक्षवधं विदु: ॥२॥
अथ तस्यैव सर्वाड्गवधमाह ॥ सर्वाड्गरोगं तद्वच्च सर्वकायाश्रितेऽनिले । दाहसन्तापमूर्च्छा: स्युर्वायौ पित्तसमन्विते ॥१॥
शैत्यशोफगुरुत्वानि तस्मिन्नेव कफावृते । शुद्धवातहतं पक्षं कृच्छ्र्साध्यतमं विदु: ॥२॥
साध्यमन्येनसंयुक्तमसाध्यं क्षयहेतुकम् । गुर्विणीसूतिकाबालवृद्धक्षीणेष्वसृक्क्षयात् ॥ पक्षाघातं परिहरेद्वेदनारहितं च यत् ॥३॥
अथार्दितलक्षणमाह ॥ उच्चैर्व्याहरतोत्यर्थं खादत: कठिणानि च । हसतो जृम्भतो भाराद्विषमाच्छयनासनात् ॥१॥
शिरोनासौष्ठचुबुकललाटेक्षणसन्धिषु । अर्दयत्यनिलो वक्रमर्दितं जनयेत्तत: ॥२॥
अभिघाताद्दिवास्वापाज्जिह्वानिर्लेखनात्पुन: । व्रणपाकात्कराद्यश्च शिराव्यधनतस्तथा ॥३॥
मर्मसंछेदनान्नेत्रकर्णनासाविकर्षणात् । तीक्ष्णमद्यासवापानाद्धारनाद्वेगनिग्रहात् ॥४॥
वर्तमानोऽनिलस्तेषु वक्रं मर्दयति ध्रुवम् । वक्रीभवति वक्रार्धं ग्रीवा चाप्यपवर्धते ॥५॥
शिरश्चलति वाकसड्गो नेत्रादेनां च वैकृतम् ॥ ग्रीवाचुबुकदन्तानां तस्मिन्पार्श्वे च वेदना ॥६॥
तस्याग्रजो रोमहर्षो वेपथुर्नेत्रमाविलम् । वायुरुर्ध्वं त्वचि स्वप्नं तोदं मन्याहनुग्रहौ ॥७॥
तमर्दितमिति प्राहुर्व्याधिं व्याधिविशारदा: । वातात्पित्तात्कफाच्चैव त्रिधा स स्यात्समासत: ॥८॥
लालातिप्रस्त्रव: कम्प: स्फुरणं हनुसड्ग्रह: । ओष्ठयो: श्वयुथु: शूलमर्दिते वातजे भवेत् ॥९॥
पीतमास्यं ज्वरस्तृष्णा पित्ते मूर्च्छा च धूपनम् । गण्डे शिरसि मन्यायां शोफ: स्तम्भ: कफोद्भवे ॥१०॥
अथ तस्यासाध्यलक्षणमाह ॥
क्षीणस्यानिमिषाक्षस्य प्रसक्ताव्यक्तभाषिण: । न सिध्यत्यर्दितं गाढं त्रिवर्षं वेपनस्य च ॥ गते वेगे भवेत्स्वास्थ्यं सर्वेष्वाक्षेपकादिषु ॥१॥
अथ हनुस्तम्भमाह ॥
जिह्वानिर्लेखनाच्छुष्कभक्षणादभिघातत: । कुपितो हनुमूलस्थ: स स्त्रंसित्वानिलो हनुम् ॥१॥
करोति विवृतास्यत्वमथवा संवृतास्यताम् । हनुग्रह: स तेन स्यात्कृच्छ्राच्चर्वणभाषणम् । हनुग्रहे पूर्वरुपं हनुस्तम्भश्च वेपथु: ॥२॥
अथ मन्यास्तम्भमाह ॥
दिवास्वप्नासनस्थानविकृतोऽपनिरीक्षणै: । मन्यास्तम्भं प्रकुरुते स एव श्लेष्मणा वृत: ॥१॥
अथ जिह्वास्तम्भमाह ॥ वाग्वाहिनीशिरासंस्थो जिह्वां स्तम्भयतेऽनिल: । जिह्वास्तम्भ: स तेनान्नपानवाक्येष्वनीशता ॥१॥
त्दृदयं यदि वा पृष्ठमुन्नतं क्रमश: सरुक् । क्रुद्धो वायुर्यदा कुर्यात्तदा तं कुब्जमादिशेत् ॥२॥
अथ शिरोग्रहमाह । रक्तमाश्रित्य पवन: कुर्यान्मूर्धधरा: शिरा: । रुक्षा: सवेदना: कृष्णा: सोऽसाध्य: स्याच्छिरोग्रह: ॥१॥
अथ गृध्रसीमाह ॥ स्फिकपूर्वं कटिपृष्ठोरुजानुजडघापदं क्रमात् । गृध्रसीस्तम्भरुक्तोदैर्गृह्नाति स्पन्दते मुहु: ॥१॥
वाताद्वातकफाभ्यां वा विज्ञेया सा द्विधा पुन: । वातजायां भवेत्तोदो देहस्यापि प्रवक्रता ॥२॥
जानुकट्यूरुसन्धीनां स्फुरणं सुप्तता भृशम् । वातश्लेष्मोद्भवायां तु स्तैमित्यं वह्निमार्दवम् ॥३॥
तन्द्रामुखप्रसेकश्च भक्तद्वेषस्तथैव च । वाताद्वातकफात्तन्द्रा गौरवारोचकान्विता ॥४॥
॥ अथ विश्वाचीमाह ॥ तलं प्रत्युड्गुलीनां या कण्डरा बाहुपृष्ठत: । बाह्वो: कर्मक्षयकरी विश्वाचीति हि सोच्यते ॥१॥
अथ क्रोष्टुशीर्षमाह ॥ वातशोणितज: शोथो जानुमध्ये महारुज: । ज्ञेय: क्रोष्टुकशीर्षस्तु स्थूल: क्रोष्टुकशीर्षवत् ॥१॥
अथ खञ्जपड्ग्वोर्लक्षणमाह ॥ वायु: सक्थ्याश्रित: सकथ्न: कण्डरामाक्षिपेद्यदा । खञ्जस्तदा भवेज्जन्तु: पड्गु: सकथ्नोर्द्वयोर्वधात् ॥१॥
अथ कलायखञ्जमाह ॥
प्रकामन्वेपते यस्तु खञ्जन्निव च गच्छति । कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम् ॥१॥
अथ वातकण्टकमाह ॥ रुक्मादे विषमे न्यस्ते श्रमाद्वा जायते यदा । वातेन गुल्फमाश्रित्य तमाहुर्वातकण्टकम् ॥१॥
न्यस्ते तु विषमे पादे रुज: कुर्यात्समीरण: । पादकण्टक इत्येष विज्ञेयस्तलकाश्रित: ॥२॥
अथ पाददाहमाह ॥ पादयो: कुरुते दाहं पित्तासृकसहितोऽनिल: । विशेषतश्चड्क्रमणात्पाददाहं तमा दिशेत् ॥१॥
अथ पादहर्षमाह ॥ त्दृष्यतश्चरणौ यस्य भवतस्तु प्रसुप्तवत् । पादहर्ष: स विज्ञेय: कफवातप्रकोपज: ॥१॥
अथांसशोषमाह ॥ अंससेशे स्थितो वायु: शोषयित्वांसबन्धनम् ॥ अथावबाहुकमाह ॥ शिराश्चाकुञ्च्य तत्रस्थो जनयत्यवबाहुकम् ॥१॥
अथ मूकमिम्मिनगद्गदानाह ॥ आवृत्य सकफो वायुर्धमनी: शब्दवाहिनी: । नरान्करोत्यक्रियकान्मूकमिम्मिनगद्गदान् ॥१॥
अथोर्ध्ववातमाह ॥
अध: प्रतिहतो वायु: श्लेष्मणा मायुनाथ वा । करोति भृशम्ञ्जरमूर्ध्ववात: स उच्यते ॥१॥
अथ तूनीलक्षणमाह ॥ अधो या वेदना याति वर्चा त्राशयोत्थिता । भिनत्तीवगुदोपस्थं सा तूनी नाम नामत: ॥१॥
अथ प्रसूनीमाह ॥ गुदोषस्थस्थिता सैव प्रतिलोमं प्रधावति । वेगै: पक्वाशये याति प्रतूनीति हि सोच्यते ॥१॥
अथ बाधिर्यमाह ॥ यदा शब्दवहं स्त्रोतो वायुरावृत्य तिष्ठति । शुद्ध श्लेष्मान्वितो वापि बाधिर्यं तेन जायते ॥१॥
अथाध्मानलक्षणमाह ॥ साटोपमत्युग्ररुजमाध्मातमुदरं भृशम् । आध्मानमिति जानीयाद् घोरं तदेवामाशये स्थितम् । प्रत्याध्मानं विजानीयात् कफव्याकुलितानिलम् ॥२॥
अथाष्ठीलामाह ॥
नाभेरधस्तात्संजात: संचारी यदि वाचल: । अष्ठीलावद्घनो ग्रन्थिरुर्ध्वमायत उन्नत: ॥१॥
अथ वाताष्ठीलामाह ॥
विण्मूत्रानिलसड्गश्च तत्राध्मानं च जायते । वाताष्ठीलां विजानीयाब्दहिर्मार्गनिरोधिनीम् ॥१॥
अथ प्रत्यष्ठीलामाह॥
एतामेव रुजोपेतां वातविण्मूत्ररोधिनीम् । प्रत्यष्ठीलामिति वदेज्जठरे तिर्यगुत्थिताम् ॥१॥
अथ वातविकृतिं मूत्ररोधिनीमाह ॥ मारुतेऽनुगुणे बस्तौ मूत्रं सम्यक्प्रवर्तते । विकारा विविधाश्चापि प्रतिलोभे भवन्ति हि ॥१॥
अथ सर्वाड्गकम्पवातमाह ॥ सर्वाड्गकम्प: शिरसो वायुर्वेपथुसंज्ञक: ॥१॥
अथ खल्लीमाह ॥ खल्ली तु पादजड्घोरुकरमूलावमोटिनी ॥१॥
N/A
References : N/A
Last Updated : December 20, 2017
TOP