संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ मानुषम्‌ ॥

॥ अथ मानुषम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


नार्या लघु पयः शीतं दीपनं वातपित्तजित्‌ ।
चक्षुःशूलाभिघातघ्नं नस्याश्चोतनय्योर्हितम्‌ ॥१॥
प्रलापमूर्छाभ्रमदाहयुक्ते तृषान्विते दोषसमूहमूर्तौ ।
पयोऽङ्गनानां पिबतां नराणाम्‌ प्रागेव जूर्तिः प्रशमं प्रयाति ॥२॥
स्तन्यं रुद्राक्षसंयुक्तं आहारार्थं प्रयोजयेत्‌ ॥
दोषज्वरेऽतिसारे च शूले च ग्रहणीगदे ॥३॥
पाण्डुरोगे क्षये चार्शःशोफे मन्दाग्निकेऽरुचौ ।
प्रसेके च प्रतिश्याये कृमिरोगे भगन्दरे ।
उदावर्ते विषूच्यां च स्तन्यपानं प्रशस्यते ॥४॥
मातुष्यं मधुरं स्तन्यं कषायानुरसं हिमम्‌ ।
नस्याश्चोतनपथ्यं च जीवनं लघु दीपनम्‌ ॥५॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP