॥ अथ चन्दनम् ॥
’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.
स्वादे तिक्तं कषे पीतं छेदे रक्तं तनौ सितम् ।
ग्रन्थिकोटरसंयुक्तं चन्दनं श्रेष्ठमुच्यते ॥१॥
चन्दनं शीतलं रूक्षं तिक्तमाल्हादनं लघु ।
हृद्यं वर्ण्यं विषश्लेष्मतृष्णापित्तास्रदाहजित् ॥२॥
कालीयकं रक्तगुणं विशेषाद्रोगनाशनम् ।
कृष्णागुरूष्णं कर्णाक्षिरोगनुच्छीतलं लघु ॥३॥
N/A
References : N/A
Last Updated : December 13, 2017
TOP