॥ अथातो विद्रधिचिकित्सां व्याख्यास्याम: ॥
रसालफलतुल्यो य: शोफो बाह्योऽथ वान्तर: । पृथग् दाहरुजानाहकारको विद्रधि: स्मृत: ॥१॥
जलौकापातनं शस्तं सर्वस्मिन्नेव विद्रधौ । मृदुर्विरेको लघ्वन्नं स्वेद: पित्तोत्तरं विना ॥२॥
अथ वातविद्रधौ ॥ व्याघ्रीमूलककल्कैस्तु वसातैलघृतान्वितै: ॥ सुखोष्णो बहुलो लेप: प्रयोज्यो वातविद्रधौ ॥१॥
स्वेदोपनाहा: कर्तव्या: शिग्रुमूलसमन्विता: । पुनर्नवादारुविश्वदशमूलाभयाम्भसा ॥ गुग्गुल्वेरण्डतैलं वा पिबेन्मा रुतविद्र्धौ ॥२॥
अथ पित्तविद्रधौ ॥ पैत्तिके सारिवालाजामधुकै: शर्करायुतै: । प्रदिह्यात्क्षीरपिष्टैर्वा पयस्योशीरचन्दनै: ॥१॥
पिबेद्वा त्रिफलाक्वाथं त्रिवृत्कल्काक्षसंयुतम् । पञ्चवल्कलकल्केन घृतमिश्रेण लेपनम् ॥२॥
अथ श्लेष्मविद्रधौ । त्रिफलाशिग्रुवरुणद्शमूलाम्भसा पिबेत् । गुग्गुलं मूत्रसंयुक्तं विद्रधौ कफसंभवे ॥१॥
इष्टकासिकतालोहाश्वशकृत्तुषपांशुभि: । मूत्रैरुष्णैश्च सततं स्वेदयेच्छ्लेष्मविद्रधौ ॥२॥
अथ रक्तागन्तुजो ॥ विद्रघौ कुशल: कुर्याद्रक्तागन्तुनिमित्तजे । पित्तविद्रधिवत्कुर्यात् क्रियां निरवशेषित: ॥१॥
अथ सामान्यविधि: ॥ शिग्रुदीप्यवरूणद्वियामिनीकुञ्जराशनकृत: कषायक: । बोलचूर्णसहितोऽन्तरस्थितं विद्रधिं प्रशमयेद्संशयम् ॥१॥
इति सोभाञ्जनादिक्वाथ: ॥ अथ वरुणादिक्वाथ: ॥ कासीससैन्धवशिलाजतुहिड्गुचूर्णमिश्रीकृतो वरुणवल्कलज: कषाय: । अभ्यन्तरोत्थितमपक्कमतिप्रमाणं नृणामयं जयति विद्रधिमुग्रशोफम् ॥१॥
अथ श्वेतपुनर्नवादि: ॥ श्वेतवर्षाभुवो मूलं मूलं च वरुणस्य च । जलेन क्वथितं पीतमपक्वं विद्रधिं जयेत् ॥१॥
अथ यवादिलेप: ॥ यवगोधूममुद्गैश्च सिद्धपिष्टै: प्रलपयेत् । विलीयते क्षणेनैवमपक्वश्चैव विद्रधि: ॥१॥
अथ दशमूललादि: ॥ दशमूली छिन्नरुहा पथ्या दारुपुनर्नवा । ज्वरविद्रधिशोफेषु शिग्रुविश्वयुतो हित: ॥१॥
अथ वरुणगणादि: ॥ वरुणादिगणक्वाथमपक्केऽभ्यन्तरोत्थिते । ऊषकादिप्रतीवापं पिबेत् संशमनाय वै ॥१॥
अथ मानकमूलादि ॥ शमयति मानकमूलं क्षौद्रयुतं तण्डुलाम्भसा पीतम् । अन्तर्भूतं विद्रधिमुद्धतमाश्वेव मनुजस्य ॥१॥
अथ हरीतकीचूर्णम् ॥ हरीतकीसैन्धवधातकीनां रजोघृतक्षौद्रयुतं प्रयुक्तम् । निहन्ति लीढं ध्रुवमेव पुंसामन्तर्भवं विद्रधिमुग्ररुपम् ॥१॥
अथ सौभाञ्जनादि ॥ सौभाज्जनकनिर्यूहो हिड्गुसैन्धवसंयुत: । अचिराद्विद्रन्धिं हन्ति प्रात: प्रातर्निषेवित: ॥१॥
शिग्रुमूलं जले धौतं दरपिष्टं प्रलेपयेत् । तद्रसं मधुना पीत्वा हन्त्यन्तर्विद्रधिं नर: ॥२॥
अथ त्रिफलागुगुलु: ॥ त्रीणि पलानि फलत्रितयस्य द्वे तु पले तुलिते मगधाया: । पञ्च पलानि भवन्ति पुरस्य स्यात्सफलत्रिकगुग्गुल्लुयोग: ॥१॥
पक्वेषु विद्रधिषु पूयमतिस्त्रवत्सु नाडीषु च व्रणगदेषु भगन्दरेषु । स्याद् गण्डमालिषु फलत्रिकगुग्गुलु: स्यात्पथ्यं फलत्रिकपुरे घृतभोजनं च ॥ इति त्रिफलागुग्गुलु: ॥ अथ वरणकादिघृतम् ॥ सिद्धं वरणादिगुणेन विधिना तत्कल्कपाचितं सर्पि: । अन्तर्विद्रधिमुग्रं मस्तकशूलं हुताशमान्द्यं च ॥१॥
गुल्मानपि पञ्चविधान्नाशयतीदं यथाम्बु वायुसखम् । एतत् प्रात: प्रपिबेद् भोजनसमये निशास्येऽपि ॥२॥
इति वरणकादिघृतम् ॥ अथ रसगन्धकयोग: ॥ वरूणादिकषायेण रसगन्धककज्जलीम् । भुक्त्वा निहन्ति माषैकां बाह्यमन्तश्च विद्रधिम् ॥ अपक्वे त्वेतदुद्दिष्टं पक्वे तद्व्रणवत्क्रिया ॥१॥
अथ पथ्यापथ्यम् ॥ आमस्थे रेचनं चैव लेप: स्वेदोऽस्त्रमोक्षणम् । जीर्णा: श्यामाककलमा: कुलत्था लशुनानि च ॥१॥
रक्तशिग्रुश्च निष्पाव: कारवेल्लं पुनर्नवा । श्रीपर्णं चित्रकं क्षौद्रं शोथोक्तानि च सर्वश: ॥२॥
पक्वावस्थे शस्त्रकर्मपुराणा रक्तशालय: । घृतं तैलं मुद्गरसो विलेपी धन्वजा रसा: ॥३॥
शालिशाकं च कदलीपटोलं हिमवालुका । चन्दनं तप्तशीताम्बु सर्वं चापि व्रणोदितम् ॥४॥
नराणां विद्रधौ व्याधौ यथावस्थं यथाबलम् । पथ्यान्येतानि सर्वाणि निर्दिष्टानि महर्षिभि: ॥५॥
शोफिनां यान्यपथ्यानि व्रणिनामपि यानि च । क्रमादामे च पक्वे च विद्रधौ वर्जयेन्नर: ॥६॥
इति विद्रधिचिकित्सा ॥
N/A
References : N/A
Last Updated : March 17, 2018
TOP