मत्स्यपुराणम् - अध्यायः ११
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
आदित्याख्यानम् ।
आदित्यवंशमखिलं वद सूत! यथाक्रमम् ।
सोमवंशञ्च तत्वज्ञ! यथावद्वक्तुमर्हसि ॥१॥
विवस्वान् कश्यपात् पूर्वमदित्यामभवत्सुतः ॥
तस्य पत्नीत्रयं तद्वत् संज्ञा राज्ञी प्रभा तथा ।
रैवतस्य सुता राज्ञी रेवतं सुषुवे तनुम् ।
प्रभा प्रभातं सुषुवे त्वाष्ट्री संज्ञा तथा मनुम् ॥२॥
यमश्च यमुना चैव यमलौ तु बभूवतुः ।
ततस्तेजोमयं रूपमसहन्ती विवस्वतः ॥३॥
नारीमुत्पादयामास स्वशरीरादनिन्दिताम् ।
त्वाष्ट्री स्वरूपेण नाम्ना छायेतिभामिनी तदा ॥४॥
किङ्करोमीति पुरतः स्थितां तामभ्यभाषत ।
छाये! त्वं भज भर्तारमस्मदीयं वरानने! ॥५॥
अपत्यानि मदीयानि मातृस्नेहेन पालय ।
तथेत्युक्ता तु सा देवमगमत् क्वापि सुव्रता ॥६॥
कामयामास देवोऽपि संज्ञेयमिति चादरात् ।
जनयामास तस्यां तु पुत्रञ्च मनुरूपिणम् ॥७॥
सवर्णत्वाच्च सावर्णिम् मनोर्वैवस्वतस्य च ।
ततः शनिञ्च तपतीं विष्टिं चैव क्रमेण तु ॥८॥
छायायां जनयामास संज्ञेयमिति भास्करः ।
छाया स्वपुत्रेऽभ्यधिकं स्नेहं चक्रे मनौ तथा ॥९॥
पूर्वो मनुस्तु चक्षाम न यमः क्रोधमूर्च्छितः ।
सन्तर्जयामास तदा पादमुद्यम्य दक्षिणम् ॥१०॥
शशाप च यमं छाया सक्षतः कृमिसंयुतः ।
पादोऽयमेको भविता पूय शोणित विस्रवः ॥११॥
निवेदयामास पितुर्धर्म्मः शापादमर्षितः ।
निष्कारणमहं शप्तो मात्रा देव! सकोपया ॥१२॥
बालभावान् मया किञ्चिदुद्यतश्चरणः सकृत् ।
मनुना वार्यमाणापि मम शापमदाद्विभो ॥१३॥
प्रायेण माता सास्माकं शापेनाहं यतो हतः ।
देवोऽप्याह यमं भूयः किङ्करोमि महामते ॥१४॥
मौर्ख्यात् कस्य न दुःखं स्यादथवा कर्म्म सन्ततेः ।
अनिवार्याभवस्यापि का कथान्येषु जन्तुषु ॥१५॥
कृकवाकुर्म्मया दत्तो यः कृमीन् भक्षयिष्यति ।
क्लेदञ्च रुधिरञ्चैव वत्सायमपनेष्यति ॥१६॥
एवमुक्तस्तपस्तेपे यमस्तीव्रं महायशाः ।
गोकर्णतीर्थे वैराग्यात् फलपत्रानिलाशनः ॥१७॥
आराधयन् महादेवं यावद्वर्षायुतायुतम् ।
वरं प्रादान् महादेवः सन्तुष्टः शूलभृत्तदा ॥१८॥
वव्रे सलोकपालत्वं पितृलोके नृपालयम् ।
धर्म्माधर्म्मात्मकस्यापि जगतस्तु परीक्षणम् ॥१९॥
एवं स लोकपालत्वमगमच्छूलपाणिनः ।
पितॄणाञ्चाधिपत्यञ्च धर्म्माधर्म्मस्य चानघ ॥२०॥
विवस्वानथ तज्ज्ञात्वा संज्ञायाः कर्म्मचेष्टितम् ।
त्वष्टुः समीपमगमदाचचक्षे च रोषवान् ॥२१॥
तमुवाच ततस्त्वष्टा सान्त्वपूर्वं द्विजोत्तामाः ।
तवासहन्ती भगवन्!महस्तीव्रं तमोनुदम् ॥२२॥
व़डवारूपमास्थाय मत्सकाशमिहागता ।
निवारिता मया सातु त्वया चैव दिवाकर! ॥२३॥
यस्मादविज्ञाततया मत्सकाशमिहागता ।
तस्मान्मदीयं भवनं प्रवेष्टुं न त्वमर्हसि ॥२४॥
एवमुक्ता जगामाथ मरुदेशमनिन्दिता ।
व़डवा रूपमास्थाय भूतले सम्प्रतिष्ठिता ॥२५॥
तस्मात्प्रसादं कुरु मे यद्यनुग्रह भागहम् ।
अपनेष्यामि ते तेजो यन्त्रे कृत्वा दिवाकर! ॥२६॥
रूपं तव करिष्यामि लोकानन्दकरं प्रभो! ।
तथेत्युक्तः स रविणा भ्रमौ कृत्वा दिवाकरम् ॥२७॥
पृथक् चकार तत्तेजश्चक्रं विष्णोरकल्पयत् ।
त्रिशूलञ्चापि रुद्रस्य वज्रमिन्द्रस्य चाधिकम् ॥२८॥
दैत्यदानवसंहर्तुः सहस्र किरणात्मकम् ।
रूपञ्चाप्रतिमञ्चक्रे त्वष्टा पद्भ्यामृते महत् ॥२९॥
न शशाकाथ तद् द्रष्टुं पादरूपं रवेः पुनः ।
अर्चास्वपि ततः पादौ न कश्चित् कारयेत् क्वचित् ॥३०॥
यः करोति स पापिष्ठां गतिमाप्नोति निन्दिताम् ।
कुष्ठरोगमवाप्नोति लोकेऽस्मिन् दुःखसंयुतः ॥३१॥
तस्माच्च धर्म्मकामार्थी चित्रेष्वायतनेषु च ।
न क्वचित्कारयेत्पादौ देवदेवस्य धीमतः ॥३२॥
ततः स भगवान्! गत्वा भूर्लोकममराधिपः ।
कामयामास कामार्तो मुख एव दिवाकरः ॥३३॥
अश्वरूपेण महता तेजसा च समावृतः ।
संज्ञा च मनसा क्षोभमगमद्भयविह्वला ॥३५॥
नासा पुटाभ्यामुत्सृष्टं परोऽयमितिशङ्कया ।
तद्रेतसस्ततो जातावश्विनावितिनिश्चितम् ॥३६॥
दस्रौ सुतत्वात् सञ्जातौ नासत्यौ नासिकाग्रतः ।
ज्ञात्वाचिराच्च तं देवं सन्तोषमगमत्परम् ॥
विमानेनागमत् स्वर्गं पत्या सह मुदान्विता ॥३७॥
सावर्णोऽपि मनुर्मेरावद्याप्यास्ते तपोधनः ।
शनिस्तपोबलादाप ग्रहसाम्यं ततः पुनः ॥३८॥
यमुना तपती चैवपुनर्नद्यौ बभूवतुः ।
विष्टिर्घोरात्मिका तद्वत् कालत्वेन व्यवस्थिता ॥३९॥
मनोर्वैवस्वतस्यासन् दशपुत्रा महाबलाः ।
इलस्तु प्रथमस्तेषां पुत्रेष्ट्यां समजायत ॥४०॥
इक्ष्वाकुः कुशनाभश्च अरिष्टो धृष्ण एव च ।
नरिष्यतः करूपश्च शर्य्यातिश्च महाबलः ॥
पृषध्रश्चाथ नाभागः सर्वे ते दिव्यमानुषाः ॥४१॥
अभिषिच्य मनुः पुत्रमिलं ज्येष्ठं स धार्मिकः ।
जगाम तपसे भूयः स महेन्द्रवनालयम् ॥४२॥
अथ दिग्जयसिध्यर्थमिलः प्रायान् महीमिमाम् ।
भ्रमन् द्वीपानि सर्वाणि क्ष्माभृतः संप्रधर्षयन् ॥४३॥
जगामोपवनं शम्भोरश्वाकृष्टः प्रतापवान् ।
कल्पद्रुमलताकीर्णं नाम्ना शरवणं महत् ॥४४॥
रमते यत्र देवेशः शम्भुः सोमार्द्धशेखरः ।
उमया समयस्तत्र पुरा शरवणे कृतः ॥४५॥
पुन्नामसत्त्वं यत् किञ्चिदागमिष्यति ते वने ।
स्त्रीत्वमेष्यति तत्सर्वं दश योजन मण्डले ॥४६॥
अज्ञातसमयो राजा इलः शरवणे पुरा ।
स्त्रीत्वमाप विशन्नेव व़डवात्त्वं हयस्तदा ॥४७॥
पुरुषत्वं हृतं सर्वं स्त्रीरूपे विस्मितो नृप ।
इलेति साभवन्नारी पीनोन्नत घनस्तनी ॥४८॥
उन्नतश्रोणिजघना पद्म पत्रायतेक्षणा ।
पूर्णेन्दुवदना तन्वी विलासोल्लासितेक्षणा ॥४९॥
मूलोन्नतायतभुजा नीलकुञ्चितमूर्धजा ।
तनुलोमा सुदशना मृदुगम्भीरभाषिणी ॥५०॥
श्यामगौरेण वर्णेन हंसवारणगामिनी ।
कार्मुक भ्रू युगोपेता तनु ताम्र नखाङ्करा ॥५१॥
भ्रमन्ती च वने तस्मिन् चिन्तयामास भामिनी ।
को मे पिताऽथवा भ्राता का मे माता भवेदिह ॥५२॥
कस्य भर्तुरहं दत्ता कियद्वत्स्यामि भूतले ।
इति चिन्तयती दृष्टा सोमपुत्रेण साङ्गना ॥५३॥
इलारूपसमाक्षिप्त मनसा वरवर्णिनीम् ।
बुधस्तदाप्तये यत्नमकरोत् कामपीड़ितः ॥५४॥
विशिष्टाकारवान् दण्डी सकमण्डलु पुस्तकः ।
वेणुदण्डकृतानेक पवित्रक गणित्रकः ॥५५॥
द्विजरूपः शिखी ब्रह्मनिगदन् कर्णकुण्डलः ।
वटुभिश्चान्वितोयुक्तैः समित्पुष्पकुशोदकैः ॥५६॥
किलान्विषन्वने तस्मिन्नाजुहाव स तामिलाम् ।
बहिर्वनस्यान्तरितः किल पादप मण्डले ॥५७॥
ससम्भ्रममकस्मात्तां सोपालम्भमिवावदत् ।
त्यक्त्वाग्नि होत्रशुश्रूषां क्व गता मन्दिरान्मम ॥५८॥
इयं विहारवेला ते ह्यतिक्रामति साम्प्रतम् ।
एह्येहि पृथुसुश्रोणि! सम्भ्रान्ता केन हेतुना ॥५९॥
इयं सायन्तनीवेला विहारस्येह वर्तते ।
कृत्वोपलेपनं पुष्पैरलंकुरु गृहं मम ॥६०॥
सात्त्वब्रवीद्विस्मृताहं सर्वमेतत्तपोधन! ।
आत्मानं त्वाञ्च भर्तारं कुलञ्च वद मेऽनघ ॥६१॥
बुधः प्रोवाच तां तन्वीमिला त्वं वरवर्णिनि! ।
अहञ्च कामुको नाम बहुविद्योबुधः स्मृतः ॥६२॥
तेजस्विनः कुले जातः पिता मे ब्राह्मणाधिपः ।
इति सा तस्य वचनात् प्रविष्टा बुधमन्दिरम् ॥६३॥
रत्नस्तम्भसमायुक्तं दिव्यमाया विनिर्मितम् ।
इला कृतार्थमात्मानं मेने तद्भवनस्थिता ॥६४॥
अहोवृत्तमहोरूपमहोधनमहोकुलम् ।
मम चास्य च मे भर्तुरहोलावण्यमुत्तमम् ॥६५॥
रेमे च सा तेन सममतिकालमिला ततः ।
सर्वभोगमये गेहे यथेन्द्रभवने तथा ॥६६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP