संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १५

मत्स्यपुराणम् - अध्यायः १५

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


पितृवंशानुकीर्त्तनम् ।

सूत उवाच ।
विभ्राजा नाम चान्येतु दिवि सन्ति सुवर्चसः ।
लोका बर्हिषदो यत्र पितरः सन्ति सुव्रताः ॥१॥

यत्र बर्हिण युक्तानि विमानानि सहस्रशः ।
सङ्कल्प्य बर्हिषो यत्र तिष्ठन्ति फलदायिनः ॥२॥

यत्राभ्युदय शालासु मोदन्ते श्राद्धदायिनः ।
यांश्च देवासुरगणा गन्धर्वाप्सरसां गणाः ॥३॥

यक्षरक्षोगणाश्चैव यजन्ति दिवि देवताः ।
पुलस्त्यपुत्राः शतशस्तपोयोगसमन्विताः ॥४॥

महात्मानो महाभागा भक्तानामभयप्रदाः ।
एतेषां पीवरी कन्या मानसी दिविविश्रुता ॥५॥

योगिनी योगमाता च तपश्चक्रे सुदारुणम् ।
प्रसन्नो भगवांस्तस्या वरं वव्रे तु सा हरेः ॥६॥

योगवन्तं सुरूपंच भर्तारं विजितेन्द्रियम् ।
देहि देव! प्रसन्नस्त्वं पतिं मे वदताम्वरम् ॥७॥

उवाच देवो भविता व्यासपुत्रो यदा शुकः ।
भविता तस्य भार्यात्वं योगाचार्यस्य सुव्रते ॥८॥

भविष्यति च ते कन्या कृत्वी नाम च योगिनी ।
पाञ्चालाधिपतेर्देया मानुष्यस्य त्वया तदा ॥९॥

जननी ब्रह्मदत्तस्य योगसिद्धा च गौस्मृता ।
कृष्णोगौरः प्रभुः शम्भुर्भविष्यन्ति च ते सुताः ॥१०॥

महात्मानो महाभागा गमिष्यन्ति परम्पदम् ।
तानुत्पाद्यपुनर्योगात्सवरा मोक्षमेष्यसि ॥११॥

सुमूर्त्तिमन्तः पितरो वशिष्ठस्य सुता स्मृताः ।
नाम्ना तु मानसाः सर्वे सर्वे ते धर्म्ममूर्त्तयः ॥१२॥

ज्योतिर्भासिषु लोकेषु ये वसन्ति दिवः परम् ।
विराजमानाः क्रीडन्ति यत्र ते श्राद्धदायिनः ॥१३॥

सर्वकाम समृद्वेषु विमानेष्वपिपादजाः ।
किं पुनः श्राद्धदा विप्र भक्तिमन्तः क्रियान्विताः ॥१४॥

गौर्नाम कन्या येषान्तु मानसी दिवि राजते ।
शुकस्य दयिता पत्नी साध्यानां कीर्त्तिवर्द्धिनी ॥१५॥

मरीचिगर्भा नाम्ना तु लोका मार्तण्डमण्डले ।
पितरो यत्र तिष्ठन्ति हविष्यन्तोऽङ्गिरः सुताः ॥१६॥

तीर्थ श्राद्धप्रदायान्ति ये च क्षत्रियसत्तमाः ।
राज्ञान्तु पितरस्ते वै स्वर्ग मोक्ष फलप्रदाः ॥१७॥

एतेषां मानसी कन्या यशोदा लोकविश्रुता ।
पत्नी ह्यंशुमतः श्रेष्ठा स्नुपा पंचजनस्य च ॥१८॥

जनन्यथ दिलीपस्य भगीरथपितामही ।
लोकाः कामदुघानाम कामभोगफलप्रदाः ॥१९॥

सुस्वधा नाम पितरो यत्र तिष्ठन्ति सुव्रताः ।
आज्यपा नाम लोकेषु कर्दमस्य प्रजापतेः ॥२०॥

पुलहाङ्गज दायादा वैश्यास्तान् भावयन्ति च ।
यत्र श्राद्धकृताः सर्वे पश्यन्ति युगपद् गताः ॥२१॥

मातृ भ्रातृ पितृष्वसृ सखि सम्बन्धि बान्धवान् ।
अपिजन्मायुतैर्द्रृष्टाननुभूतान्सहस्रशः ॥२२॥

एतेषां मानसी कन्या विरजा नाम विश्रुता ।
या पत्नी नहुषस्यासीद्ययातेर्जननी तथा ॥२३॥

एकाष्टकाऽभवत् पश्चाद् ब्रह्मलोके गता सती ।
त्रय एते गणाः प्रोक्ताश्चतुर्थन्तु वदाम्यतः ॥२४॥

लोकास्तु मानसा नाम ब्रह्माण्डोपरि संस्थिताः ।
येषान्नु मानसी कन्या नर्मदा नाम विश्रुता ॥२५॥

सोमपा नाम पितरो यत्र तिष्ठन्ति शाश्वताः ।
कृत्वा सृष्ट्यादिकं सर्वं मानसे साम्प्रतं स्थिताः ॥२६॥

नर्मदा नाम तेषान्तु कन्या तोयवहासरित् ।
भूतानि या पावयति दक्षिणापथगामिनी ॥२७॥

तेभ्यः सर्वे तु मनवः प्रजाः सर्गेषु निर्मिताः ।
ज्ञात्वा श्राद्धानि कुर्वन्ति धर्माभावेऽपि सर्वदा ॥२८॥

तेभ्य एव पुनः प्राप्तुं प्रसादाद्योगसन्ततिम् ।
पितॄणामादिसर्गे तु श्राद्धमेवविनिर्मितम् ॥२९॥

सर्वेषां राजतं पात्रमथवा रजतान्वितम् ।
दत्तं स्वधा पुरोधाय पितॄन् प्रीणाति सर्वदा ॥३०॥

अग्नीषोमयमानान्तु कार्य्यमाप्यायनं बुधैः ।
अग्न्यभावेऽपि विप्रस्य पाणावापि जलेऽथवा ॥३१॥

अजाकर्णेऽश्वकर्णे वा गोष्ठे वा सलिलान्तिके ।
पितॄणामम्बरं स्थानं दक्षिणा दिक् प्रशस्यते ॥३२॥

प्राचीनावीतमुदकं तिलाः सव्याङ्गमेव च ।
दर्भा मांसं च पाठीनं गोक्षीरं मधुरा रसाः ॥३३॥

खड्‌ग लोहामिषमधु कुशश्यामाकशालयः ।
यवनीवारमुद्गेक्षु शुक्लपुष्पघृतानि च ॥३४॥

वल्लभानि प्रशस्तानि पितॄणामिहसर्वदा ।
द्वेष्याणि सम्प्रवक्ष्यामि श्राद्धे वर्ज्यानि यानि तु ॥३५॥

मसूरशणनिष्पावराजमाषकुसुम्भिकाः ।
पद्मबिल्वार्कधत्तूर पारिभद्राट्टरूषकाः ॥३६॥

न देयाः पितृकार्येषु पयश्चाजाविकं तथा ।
कोद्रवोदारचणकाः कपित्थं मधुकातसी ॥३७॥

एतान्यपि न देयानि पितृभ्यः प्रियमिच्छता ।
पितॄन् प्रीणाति यो भक्त्या ते पुनः प्रीणयन्ति तम् ॥३८॥

यच्छन्ति पितरः पुष्टिं स्वर्गारोग्यं प्रजाफलम् ।
देवकार्यादपि पुनः पितृकार्य्यं विशिष्यते ॥३९॥

देवानाञ्चपितरः पूर्वमाप्यायनं स्मृतम् ।
शीघ्रप्रसादास्त्वक्रोधा निःशस्त्राः स्थिरसौहृदाः ॥४०॥

शान्तात्मानः शौचपराः सततं प्रियवादिनः ।
भक्तानुरक्ताः सुखदाः पितरः पूर्वदेवताः ॥४१॥

हविष्मतामाधिपत्ये श्राद्धदेवः स्मृतो रविः ।
एतद्वः सर्वमाख्यातं पितृवंशानुकीर्त्तनम् ॥
पुण्यं पवित्रमायुष्यं कीर्त्तनीयं सदा नृभिः ॥४२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP