मत्स्यपुराणम् - अध्यायः ४५
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
स्यमन्तकमणिसंक्षिप्तचरित्रम् ।
सूत उवाच ।
गान्धारी चैव माद्री च वृष्णिभार्ये बभूवतुः ।
गान्धारी जनयामास सुमित्रं मित्रनन्दनम् ॥१॥
माद्री युधाजितं पुत्रं ततो वै देवमीढुषम् ।
अनमित्रं शिबिं चैव पञ्चमं कृतलक्षणम् ॥२॥
अनमित्रसुतो निघ्नो निघ्नस्यापि तु द्वौ सुतौ ।
प्रसेनश्चमहावीर्यः शक्तिसेनश्च तावुभौ ॥३॥
स्यमन्तकः प्रसेनस्य मणिरत्नमनुत्तमम् ।
पृथिव्यां सर्वरत्नानां राजा वै सोऽभवन्मणिः ॥४॥
हृदि कृत्वा तु बहुशो मणिन्तमभियाचितम् ।
गोविन्दोऽपि न तं लेभे शक्तोऽपि न जहार सः ॥५॥
कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः ।
यथाशब्दं स शुश्राव बिले सत्वेन पूरिते ॥६॥
ततः प्रविश्य स बिलं प्रसेनो ऋक्षमैक्षत ।
ऋक्षः प्रसेनञ्च तथा ऋक्षं चैव प्रसेनजित् ॥७॥
हत्वा ऋक्षः प्रसेनन्तु ततस्तं मणिमाददात् ।
अदृष्टस्तु हतस्तेन अन्तर्बिलगतस्तदा ॥८॥
प्रसेनन्तु हतं ज्ञात्वा गोविन्दः परिशङ्कितः ।
गोविन्देन हतो व्यक्तं प्रसेनो मणिकारणात् ॥९॥
प्रसेनस्तु गतोऽरण्यं मणिरत्नेन भूषितः ।
तं द्रृष्ट्वा स हतस्तेन गोविन्दः प्रत्युवाच ह ॥
हन्मि चैनं दुराचारं शत्रुभूतं हि वृष्णिषु ॥१०॥
अथ दीर्घेण कालेन मृगयां निर्गतः पुनः ।
यद्रृच्छया च गोविन्दो बिलस्याभ्यासमागमत् ॥११॥
तं दृष्ट्वा तु महाशब्दं स चक्रे ऋक्षराट् बली ।
शब्दं श्रुत्वा तु गोविन्दः खङ्गपाणिः प्रविश्य सः ॥
अपश्यज्जाम्बवन्तं तं ऋक्षराजं महाबलम् ॥१२॥
ततस्तूर्णं हृषीकेशस्तमृक्षपतिमञ्जसा ।
जाम्बवन्तं स जग्राह क्रोध संरक्त लोचनः ॥१३॥
तुष्टावैनं तदा ऋक्षः कर्मभिः वैष्णवैः प्रभुम् ।
देवाहस्य सुतो विद्वान् जज्ञे कम्बलबर्हिषः ॥१४॥
इच्छेच्चक्र प्रहारेण त्वत्तोऽहं मरणं प्रभो! ।
कन्याचेयं मम शुभा भर्त्तारं त्वामवाप्नुयात् ॥
योऽयं मणिः प्रसेनन्तु हत्वा प्राप्तो मया प्रभो ॥१५॥
ततः सजाम्बवन्तं तं हत्वा चक्रेण वै प्रभुः ।
कृतकर्मा महाबाहुः सकन्यं मणिमाहरत् ॥१६॥
ददौ सत्राजितायैनं सर्वं सात्वतसंसदि ।
तेन मिथ्यापवादेन सन्तप्ता ये जनार्दने ॥१७॥
ततस्ते यादवाः सर्वे वासुदेवमथाब्रुवन् ।
अस्माकन्तु मतिर्ह्यासीत् प्रसेनस्तु त्वया हतः ॥१८॥
कैकेयस्य सुता भार्या दश सत्राजितः शुभाः ।
तासूत्पन्नाः सुतास्तस्य सर्वलोकेषु विश्रुताः ॥
ख्यातिमन्ते महावीर्य्या भङ्गकारस्तु पूर्वजः ॥१९॥
अथ व्रतवती तस्मात् भङ्गकारात्तु पूर्वजात् ।
सुषुवे सुकुमारीस्तु तिस्रः कमललोचनाः ॥२०॥
सत्यभामा वरास्त्रीणां व्रतिनी च दृढव्रता ।
तथा पद्मावती चैव ताश्च कृष्णायसोऽददात् ॥२१॥
अनमित्रात् शनिर्जज्ञे कनिष्ठाद् वृष्णिनन्दनात् ।
सत्यवांस्तस्य पुत्रस्तु सात्यकिस्तस्य चात्मजः ॥२२॥
सत्यवान्युयुधानस्तु शिनेर्नप्ता प्रतापवान् ।
असङ्गोयुयुधानस्य द्युम्निस्तस्यात्मजोऽभवत् ॥२३॥
द्युम्नेर्युगन्धरः पुत्र इति शैन्याः प्रकीर्त्तिताः ।
अनमित्रान्वयो ह्येष व्याख्यातो वृष्णिवंशजः ॥२४॥
अनमित्रस्य संज्ञज्ञे पृथ्व्यां वीरो युधाजितः ।
अन्यौ तु तनयो वीरौ बृषभः क्षत्र एव च ॥२५॥
वृषभः काशिराजस्य सुतां बार्यामविन्दत ।
जयन्तस्तु जयन्त्यान्तु पुत्रः समभवच्छुभः ॥२६॥
सदा यज्ञोऽति वीरश्च श्रुतवानतिथिप्रियः ।
अक्रूरः सुषुवे तस्मात्सदा यज्ञोऽतिदक्षिणः ॥२७॥
रत्ना कन्या च शौर्यस्य अक्रूरस्तामवाप्तवान् ।
पुत्रानुत्पादयामास एकादशमहाबलान् ॥२८॥
उपलम्भः सदालम्भो वृकलो वीर्य्य एव च ।
सिरी ततो महापक्षः शत्रुध्नो वारिमेजयः ॥२९॥
धर्म्मभृद्धर्म्मवर्माणौ धृष्टमानस्तथैव च ।
सर्वे च प्रतिहोतारो रत्नायां जज्ञिरे च ते ॥३०॥
अक्रूरादुग्रसेनायां सुतौ द्वौ कुलवर्द्धनौ ।
देववानुपदेवश्च जज्ञाते देवसन्निभौ ॥३१॥
अश्विन्यां च ततः पुत्राः पृथुर्विपृथुरेव च ।
अश्वत्थामा सुबाहुश्च सुपार्श्वकगवेषणौ ॥३२॥
वृष्टिनेमिः सुधर्मा च तथा शर्यातिरेव च ।
अभूमिर्वर्जभूमिश्च श्रमिष्ठः श्रवणस्तथा ॥३३॥
इमां मिथ्याभिशस्तिं यो वेदकृष्णादपोहिताम् ।
न स मिथ्याभिशापेन अभिशाप्योऽथ केनचित् ॥३४॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP