मत्स्यपुराणम् - अध्यायः ३१
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
ययाति चरित्रम् ।
शौनक उवाच ।
ययातिः स्वपुरं प्राप्य महेन्द्रपुरसन्निभम् ।
प्रविश्यान्तः पुरं तत्र देवयानीं न्यवेशयत् ॥१॥
देवयान्याश्चानुमते सुतां तां वृषपर्वणः ।
अशोकवनिकाभ्यासे गृहं कृत्वा न्यवेशयत् ॥२॥
वृतां दासीसहस्रेण शर्मिष्ठामासुरायणीम् ।
वासोभिरन्नपानैश्च संभिज्य सुसंवृताम् ॥३॥
देवयान्यातु सहितः स नृपो नहुषात्मजः ।
विजहार बहूनब्दान् देववन्मुदितो भृशम् ॥४॥
ऋतुकाले तु संप्राप्ते देवयानी वराङ्गना ।
लेभे गर्भं प्रथमतः कुमारश्च व्यजायत ॥५॥
गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी ।
ददर्श यौवनं प्राप्ता ऋतुं सा कमलेक्षणा ॥६॥
चिन्तयामास दर्म्मज्ञा ऋतु प्राप्तौ च भामिनी ।
ऋतुकालश्च संप्राप्तो न कश्चिन् मे पतिर्वृतः ॥७॥
किं प्राप्तं किञ्च कर्तव्यं कथं कृत्वा सुखं भवेत् ।
देवयानी प्रसूतासौ वृथाऽहं प्राप्तयौवना ॥८॥
यथा तथावृतो भर्ता तथैवाहं वृणोमि तम् ।
राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः ॥
अपीदानीं स धर्मात्मा रहो मे दर्शनं व्रजेत् ॥९॥
अथनिष्क्रम्य राजाऽसौ तस्मिन् काले यदृच्छया ।
अशोकवनिकाभ्यासे शार्मिष्ठां प्राप्य धिष्ठितः ॥१०॥
तमेकं रहसि द्रृष्ट्वा शर्मिष्ठा चारुहासिनी ।
प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् ॥११॥
सोमश्चेन्द्रश्च वायुश्च यमश्च वरुणाश्च वा ।
तव वा नाहुषगृहे कः स्त्रियं द्रष्टुमर्हति ॥१२॥
रूपाभिजनशीलैर्हि त्वं राजन्! वेत्थ मां सदा ।
सा त्त्वां याचे प्रसाद्येऽहरन्तु मे हि नराधिप! ॥१३॥
ययातिरुवाच ।
वेद्मित्वाशीलसम्पन्नां दैत्य कन्यामनिन्दिताम् ।
रूपन्तु ते न पश्यामि सूच्यग्रमपि निन्दितम् ॥१४॥
मामब्रवीत्तदा शुक्रो देवयानीं यदावहम् ।
नेयमाह्वयितव्या ते शयने वार्षपर्वणी ॥१५॥
शर्मिष्ठोवाच ।
न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्नविवाहकाले ।
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥१६॥
पृष्ठास्तु साक्ष्ये प्रवदन्ति चान्यथा भवन्ति मिथ्या वचना नरेन्द्र ते ।
एकार्थतायान्तु समाहितायां मिथ्या वदन्तं ह्यनृतं हिनस्ति ॥१७॥
ययातिरुवाच ।
राजा प्रमाणं भूतानां स विनश्येत् मृषा वदन् ।
अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे ॥१८॥
शर्मिष्ठोवाच ।
समावेतौ मतौ राजन् । पतिः सख्याश्च यः पतिः ।
समं विवाह इत्याहुः सख्यामेऽसि पतिर्यतः ॥१९॥
दातव्यं याचमानस्य हीति मे व्रतमाहितम् ।
त्वञ्च याचसि कामं मां ब्रूहि किङ्करवाणि तत् ॥२०॥
शर्मिष्ठोवाच ।
अधर्मात् त्राहि मां राजन्! धर्मञ्च प्रतिपादय ।
त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् ॥२१॥
त्रय एवाधना राजन्! भार्या दासस्तथा सुतः ।
यत्ते समघिगच्छन्ति यस्य ते तस्य तद्धनम् ॥२२॥
देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी ।
स चाहं च त्वया राजन्! भरणीयां भजस्व माम् ॥२३॥
शौनक उवाच ।
एव मुक्तस्तया राजा ताड्यमित्यभिजज्ञवान् ।
पूजयामास शर्मिष्ठां धर्मं च प्रतिपादयत् ॥२४॥
स समागम्य शर्मिष्ठां यथा काममवाप्य च ।
अन्योन्यं चाभिसंपूज्य जग्मतुस्तौ यथागतम् ॥२५॥
तस्मिन् समागमे सुभ्रुः शर्मिष्ठा वार्षपर्वणी ।
लेभे गर्भं प्रथमतः तस्मात् नृपति सत्तमात् ॥२६॥
प्रजज्ञे च ततः काले राज्ञी राजीवलोचना ।
कुमारं देवगर्भाभमादित्यसमतेजसम् ॥२७॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP