मत्स्यपुराणम् - अध्यायः १९९
मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.
कश्यपवंशज-ऋषीणां नामगोत्रवंशप्रवरवर्णनम् ।
मत्स्य उवाच ।
मरीचेः कश्यपः पुत्रः कश्यपस्य तथा कुले ।
गोत्रकारान् ऋषीन् वक्ष्ये तेषां नामानि मे श्रृणु ॥१
आश्रायणिः ऋषिगणो मेषकीरिटकायनाः ।
उदग्रजा माठराश्च भोजा विनयलक्षणाः ॥२
शालाहलेयाः कौरिष्टाः कन्यकाश्चासुरायणाः ।
मन्दाकिन्यां वै मृगयाः श्रृतया भोजयापनाः ॥३
देवयाना गोमयानाह्यधश्छाया भयाश्च ये ।
कात्यायनाः शाक्रयाणाः बर्हियोगगदायनाः ॥४
भवनन्दि महाचक्रि दाक्षपायन एव च ।
योधयानाः कार्तिवयो हस्तिदानास्तथैव च ॥५
वात्स्यायनानि कृतजा ह्याश्वलायनिनस्तथा ।
प्रागायणाः पौलमौलिराश्ववातायनस्तथा ॥६
कौवेरकाश्च श्याकारा अग्निशर्मायणश्च ये ।
मेषपाः कैकरसपास्तथा चैव तु वभ्रवः ॥७
प्राचेयो ज्ञानसंज्ञेया आग्ना प्रासेव्य एव च ।
श्यामोदरा वैवशपास्तथा चैवोद्बलायनाः ॥८
काष्ठाहारिणमारीचा आजिहायनहास्तिकाः ।
वैकर्णेयाः काश्यपेयाः सासिसाहारितायनाः ॥९
मान्तगिनश्च भृगवस्त्रयार्षेयाः परिकीर्तिताः ।
वत्सरः कश्यपश्चैव निध्रवश्च महातपाः ॥१०
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
अतः परं प्रवक्ष्यामि द्व्यामुष्यायण गोत्रजान् ॥११
अनसूयो नाकुरयः स्नातपो राजवर्तपः ।
शैशिरोदवहिश्चैव सैरन्ध्रीरोपसेवकिः ॥१२
या मुनिः काद्रुपिङ्गाक्षिः सजातम्विस्तथैव च ।
दिवावष्टाश्व इत्येते भक्त्या ज्ञेयाश्च काश्यपाः ॥१३
त्र्यार्षेयाश्च तथैवेषां सर्वेषां प्रवराः शुभाः ।
वत्सरः काश्यपश्चैव वसिष्ठश्च महातपाः ॥१४
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।
संयातिश्च नभश्चोभौ पिप्पल्योऽथ जलन्धरः ॥१५
भुजातपूरः पूर्यश्च कर्दमो गर्द्दभीमुखः ।
हिरण्यबाहुकैरातावुभौ काश्यपगोभिलौ ॥१६
कुलहो वृषकण्डश्च मृगकेतुस्तथोत्तरः ।
निदाघमसृणौ भत्स्या महान्तः केवलाश्च ये ॥१७
शाण्डिल्यो दानवश्चैव तथा वै देवजातयः ।
पैप्पलादित्स प्रवरा ऋषयः परिकीर्तिताः ॥१८
त्र्यार्षेयाभिमताश्चैषां सर्वेषां प्रवराः शुभाः ।
असितो देवलश्चैव कश्यपश्च महातपाः ।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥१९
ऋषिप्रधानस्य च कश्यपस्य दाक्षायणीभ्यः सकलं प्रसूतम् ।
जगत्समग्रं मनुसिंह पुण्यं किं ते प्रवक्ष्याम्यहमन्तरेण ॥२0
N/A
References : N/A
Last Updated : November 11, 2016
TOP